________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुकुलादिकंस्थान, महिंसाचारबोधकम् ; स्थाप्यंसंघादिशान्त्यर्थ, विश्ववर्तिदयापरैः ॥२१३॥ एशियावासिलोकैस्तु, युरोपीयजनै शम् दयाचारविचाराणां, कर्मकार्य विवेकतः ॥२१४॥ अमेरिकाजनैःसये, यत्नैर्दयाविवृद्धये । स्वार्पणेन च यद्योग्य, तत्कर्तव्यविवेकतः ॥२१॥ आस्ट्रेलियाजन विश्व,-शान्तयेचविवेकतः अहिंसाधर्मवृद्ध्यर्थ, कर्तव्यं धर्मकर्मयत् ॥२१६॥ आफ्रिकावासिभिहिंसा,-कर्म त्याज्यं विवेकतः सर्वविश्वजनैहिसा, त्याज्या सत्यदयापरैः ॥२१७॥ सत्ताधनादिभिर्लोकान् , पीडयन्ति च ये जनाः ते नरा नरकंयान्ति, घोरपापपरिग्रहः ॥२१४॥ महादुःखेन संतप्तान , जावान् दृष्ट्वा च यदि, दयानोजायते तस्य, राक्षसत्वं प्रकाश्यते ॥२१९॥ स्त्रीबालसाधुसहर्ता, गर्भनाशी च यो जनः यातिश्वभ्रं महापापी, निर्दयो देहिनः प्रति ॥२२०॥ तमोवृत्त्यारजोवृत्त्या, हिंसादिपापकर्मिणः श्वभ्रंयास्यन्तितेघोरं, कृत्वाहिंसां पुनः पुनः ॥२२१॥ हिंसादिपापकर्तृणा, मुद्धारायसुशिक्षणम् दयाज्ञानस्यदातव्यं, विश्ववर्तिदयापरैः ॥२२२॥ दयाईविश्वसंवेन, सर्वस्वार्पणयोगतः प्रचार्याः सर्वविश्वस्मिन् , दयोपायाः सुशक्तिभिः ॥२२३॥ दयापूर्णसुशास्त्राणां, कार्या प्रचारणाभुवि दयोपदेशतत्काय, वर्धयन्तुदयांजनाः ॥२२४॥
For Private And Personal Use Only