________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्वार्थ मन्येषु लोकेषु, निर्दयत्वं न धारयः साहाय्ययाचकानां त्वं, साहाय्यं कुरु भावतः ॥१९०॥ सहयादानकार्याणां, सत्फलं नैव नश्यति अत आस्तिकभावेन, दयाकार्य कुवि भोः ॥१९१।। स्वल्पहिंसा दया बही, स्वाधिकारेण मानवैः आजीविकादिकार्येषु, कर्तव्या सद्विवेकतः ॥१९२॥ पशुपक्षिमनुष्यादि-घातादाजीविकादिकम् कुर्वन्ति न दयावन्तः प्राणान्तेऽपि शिवाऽर्थिनः ॥१९३॥ जीवेन सह बन्धोऽस्ति, हिंसातः पापकर्मणाम् पापकर्मोदयेनैव,-महादुःखपरम्परा ॥१९४॥ जीवेनसहबन्धोऽस्ति, दयातः पुण्यकर्मणाम् पुण्यकर्मोदयेनैव, सुखस्याऽस्तिपरम्परा ॥२९५॥ सुखार्थ स्वार्थमोहेन, नाऽन्यजीवान् विनाशय मिथ्यामोहादिकं त्यक्त्वा, स्वाऽऽत्मानन्द लभस्वभोः॥१९६ सुखार्थ वित्तदारादि,-भोगानांप्राप्तये हठात् हिंसाकर्मादिकं कृत्वा, प्रान्ते दुःखमवाप्स्यसि ॥१९७॥ हिंसकानां सुखं स्वल्पं, प्रत्यक्षं व्यावहारिकम् दृष्ट्वा मा मुह्य जीव त्वं, महादुःखं सुखान्ततः ॥१९८॥ पापाऽनुबिधपुण्येन, हिंसकानां धनादिकम् दृष्ट्वा मोहो न कर्तव्यः परत्र दुःखराशयः ॥१९९॥ पशुपक्ष्यादिषुश्रेष्ठो, ह्यनन्तगुणमानवः मनुष्य एव मोक्षस्य, प्रत्यक्षमधिकारवान् ।।२००॥ मुक्ति यान्ति जना एव, नाऽन्ये यान्तीति निश्चितम् अहिंसाधर्मसमाप्त्या, मनुष्याऽऽत्मा भवेत् प्रभुः॥२०१॥
For Private And Personal Use Only