________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सावधानतया कार्या, वैरिणां सद्दयाजनैः विश्वासोनैवशणां, कर्तव्यः सद्दयाधरैः ॥१७॥ शक्तानां सहयाधर्मो, मोक्षमार्गविहारिणाम् अशक्तानां दया कार्या, शक्तिमद्भि विवेकतः ॥१७॥ दुष्कालादिप्रसङ्गेषु, मानवपशुरक्षणम् कर्तव्यमनवित्तायै, रनेकैः साधनैर्जनः ॥१८०॥ दयादानादिसत्पुण्यैः सुभिक्षं च निरोगता खंडे देशे च संघ च, जायते नैव संशयः ॥१८॥ महापुण्येन पापस्य, विपाकोपशमो भवेत् दयादिपुण्यकार्यैश्च, सुखहि दुःखनाशनम् ।।१८२।। दयामयेषु देशेषु, खण्डेषु सर्वजातिय शान्तिस्तुष्टिस्तथापुष्टि, रारोग्यं मंगलभृशम् ॥१८॥ दयाकाषुदोषोऽपि, स्यात्तथाऽपिदयाधिया पुण्यधर्मस्यबाहुल्या, दाऽऽत्मोन्नतिर्भवेभृशम् ॥१८४॥ अहिंसायाः प्रचारार्थ, दयाकर्म समाचर दुर्लभं वैभवं प्राप्य, मा प्रमादं कुरक्षणम् ॥१.८५॥ अहिंसाधर्मकार्यश, नृजन्मसफलं कुरु किं वित्तेन स्त्रियाभोगै, दयाधर्म समाचर ॥१८॥ सर्वतीर्थकरैरक्तो, दयाधर्मः सुखंकरः स्वपिजेन दयाकर्म, कुरुष्व स्वोपयोगतः ॥१८७॥ दुःखीकृत्या न्यलोकांस्त्वं, मा जीव पापकर्मभिः सर्वजीवसुखाय त्वं, जीव पुण्यसुकर्मभिः ॥१८८॥ सर्वलोकमुखार्थ त्वं, स्वाऽऽत्मभोगं समर्पय कुरुनिष्कामतोलोक,-हितार्थाय शुभं च यत् ॥१८९॥
For Private And Personal Use Only