Book Title: Atmashuddhipayog
Author(s): Buddhisagar
Publisher: Buddhisagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૧ર૩ तस्मिंश्चिदानन्दमयः स्वधामोहादयो यत्र न सम्भवन्ति । शुद्धाऽऽत्मधर्मोऽस्त्ययमेव नूनं, जानीापादानत एव मर्म ॥१०८ ॥ सर्वस्य संघस्य कुरुष्व सेवां, प्रीत्या चल श्रेणिक राजराज | ज्ञात्वा परेशं सकलं स्वसंघ, तत्रैव धर्म सकलं च विद्धि ॥ १०९॥ सर्वत्र संघ विहिते च रागे, त्यागश्चसम्यक्त्वमुदेति नूनम् । हृद्वाग्वपुःशक्तिमुदीरय त्वं, निजाऽऽत्मशुद्धि हृदि भावय त्वम् ॥ ११० ॥ बाह्याऽन्तरा एत्य समग्रशक्तीः, कदापि कुर्या नहि भूप ! गर्वम् । निःशक्तिको याकुतेऽतिगर्व, नरो भवेदाऽऽत्म गुणैश्च दीनः ॥ १११ ॥ हानि च लाभं प्रविचार्य चित्ते, कर्माणि कर्तुं धर निश्चयं त्वम् । आज्ञा मदीयां प्रतिपालय त्वं, भावेन दृश्यः सच शुद्ध आत्मा ॥ ११२॥ ममोपदेशाऽऽचरणं कुरुष्व, यस्मात्सदानन्द उदेति पूर्णः। मोहादिकं वारय जायमानं, मनःप्रभूतं हर दोषराशिम् ॥ ११३॥
For Private And Personal Use Only

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130