Book Title: Atmashuddhipayog
Author(s): Buddhisagar
Publisher: Buddhisagar

View full book text
Previous | Next

Page 125
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૧૨ वा कुरीतिव्यसनस्य माभूः, शक्रादयो मोहवशा हि दीनाः। स्वतन्त्रतायां निजराज्यमस्ति, त्याज्याश्च सर्वे व्यसनस्य दोषाः ॥ ११४ ॥ वर्तस्व चैवं दृढनिश्चयेन, स्वतन्त्रमुक्तेरियमस्ति युक्तिः। आत्मोपयोगेन यतो निजाऽऽत्मा, प्रवर्तते तत्र हि सर्वयोगः ॥ ११५ ॥ प्रवर्तते चाऽत्मवशं मनश्चेत्, सर्वे हि धर्माः सहसोद्भवन्ति ।। आत्मप्रकाशं वृणु निश्चयेन, सर्वप्रकाशोपरि सुप्रकाशम् ॥ ११६ ॥ सर्व प्रकाशं प्रविकाशयेत्सज्ञानाद्विलासी सहि शुद्ध आत्मा । एवं प्रलभ्यस्तवशुद्ध आत्मा, सर्वात्मशक्तीः प्रविकाशय त्वम् ॥ ११७ ॥ शिक्षां च हेश्रेणिक !! धारय त्वं, नरावतारं सफलं कुरुष्व । भूपालशिक्षाभयतो हि नार्यस्तथानरा धर्ममथोद्वहन्ति ॥ ११९॥ राजा च शिक्षां कुरुते यदैव, धर्म वहन्त्याऽऽश्वधमा जनाश्च । प्रभोर्भयैर्मध्यनराः स्त्रियश्च, धर्म तथा कर्म सदा चरन्ति ॥ ११९ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130