Book Title: Atmashuddhipayog
Author(s): Buddhisagar
Publisher: Buddhisagar

View full book text
Previous | Next

Page 91
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८० हिंसाऽस्ति व्यसनैव हि सा दुर्गुणवृत्तयः सर्व हंसादितो मुक्ता, वीतरागा जिनादयः ॥ २४९ ॥ सर्वकर्मसु हिंसात्व, मल्पाधिक्यप्रभेदतः गृहस्थानां भवेत्तत्र, निर्बन्धा ज्ञानयोगिनः ॥ २५० ॥ दयाबुद्धिं हृदि न्यस्य, गृहस्था स्त्यागिनो जनाः स्वाऽधिकारेण कर्माणि कुर्वन्ति स्वोपयोगिनः || २५१|| यथा धूमावृतो वहनि, स्तथा सर्वप्रवृत्तयः सदोषा अपि कुर्वन्ति, ह्याजीविकादिकारिणः ॥ २५२ ॥ निरासक्तितया सुज्ञा, यथायोग्यविवेकतः आत्मज्ञानोपयोगेन, कर्म कुर्वन्ति सज्जनाः ॥ २५३ ॥ , Acharya Shri Kailassagarsuri Gyanmandir द्रव्यभावद्याज्ञान, - विवेकेन प्रवर्तिनः स्वाऽधिकारेण कर्माणि कुर्वन्ति यान्ति सद्गतिम् || २५४|| हिंसावुद्धिर्न यस्याsस्ति, शुद्धात्मलक्ष्यधारकः सर्वकर्मप्रकुर्वाणोऽप्यहिंसाधर्मसाधकः || २५५ ॥ : परस्परं च साहाय्यं कुर्वन्तु भव्यमानवाः परस्परोपकारेण, जीवा जीवन्ति भूतले ॥ २५३॥ परस्परोपकारोऽस्ति, जीवैर्जडैश्वदेहिनाम् परस्परसहायेन जीवन्ति विश्वदेहिनः || २५७॥ " अतःस्वाभाविकं सत्यं, साहाय्यं च परस्परम् विज्ञायैवं जनाः सर्वे भवन्तु स्वार्पिताः सदा || २५८।। दुःखिनां दुःखनाशार्थं, सहायिनो भवन्तु भोः स्वार्थे कातरा नैव, भवन्तु विश्वमानवाः || २५९॥ देशजात्यभिमानेन वर्णधर्माभिमानतः परस्परं न हिंसन्तु भवन्तु सद्दयापराः || २६०॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130