________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८०
हिंसाऽस्ति व्यसनैव हि सा दुर्गुणवृत्तयः सर्व हंसादितो मुक्ता, वीतरागा जिनादयः ॥ २४९ ॥ सर्वकर्मसु हिंसात्व, मल्पाधिक्यप्रभेदतः गृहस्थानां भवेत्तत्र, निर्बन्धा ज्ञानयोगिनः ॥ २५० ॥ दयाबुद्धिं हृदि न्यस्य, गृहस्था स्त्यागिनो जनाः स्वाऽधिकारेण कर्माणि कुर्वन्ति स्वोपयोगिनः || २५१|| यथा धूमावृतो वहनि, स्तथा सर्वप्रवृत्तयः सदोषा अपि कुर्वन्ति, ह्याजीविकादिकारिणः ॥ २५२ ॥ निरासक्तितया सुज्ञा, यथायोग्यविवेकतः आत्मज्ञानोपयोगेन, कर्म कुर्वन्ति सज्जनाः ॥ २५३ ॥
,
Acharya Shri Kailassagarsuri Gyanmandir
द्रव्यभावद्याज्ञान, - विवेकेन प्रवर्तिनः
स्वाऽधिकारेण कर्माणि कुर्वन्ति यान्ति सद्गतिम् || २५४|| हिंसावुद्धिर्न यस्याsस्ति, शुद्धात्मलक्ष्यधारकः सर्वकर्मप्रकुर्वाणोऽप्यहिंसाधर्मसाधकः || २५५ ॥
:
परस्परं च साहाय्यं कुर्वन्तु भव्यमानवाः परस्परोपकारेण, जीवा जीवन्ति भूतले ॥ २५३॥ परस्परोपकारोऽस्ति, जीवैर्जडैश्वदेहिनाम् परस्परसहायेन जीवन्ति विश्वदेहिनः || २५७॥
"
अतःस्वाभाविकं सत्यं, साहाय्यं च परस्परम् विज्ञायैवं जनाः सर्वे भवन्तु स्वार्पिताः सदा || २५८।। दुःखिनां दुःखनाशार्थं, सहायिनो भवन्तु भोः स्वार्थे कातरा नैव, भवन्तु विश्वमानवाः || २५९॥ देशजात्यभिमानेन वर्णधर्माभिमानतः परस्परं न हिंसन्तु भवन्तु सद्दयापराः || २६०॥
For Private And Personal Use Only