________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ટર
Acharya Shri Kailassagarsuri Gyanmandir
शूद्राणां च स्वधर्मोऽस्ति, साधुब्राह्मणसेवनम् धर्मिणां सेवनं कार्य, हृदि धार्या दया मतिः ॥ २३७॥ आजीविकादिकार्येषु, न्याययुद्ध्या प्रवर्त्तनम् मनोवाक्काययोगेन, दयानीतिप्रवर्त्तनम् ॥ २३८॥ अहिंसादेशना कार्या, विश्वोद्धाराय साधुभिः आत्मवत्सर्वजीवानां, रक्षणं शिक्षणं तथा ॥ २३९॥
-
शक्तिमतां दयादानं क्षमातपश्चसंयमः जीवन्ति निर्बला लोकाः, शक्तानां सद्दयाबलात् ॥ २४०॥ पीड्यमानान् जनान् दृष्ट्वा, शक्तिमद्भिःस्वशक्तितः तत्साहाय्यं प्रकर्त्तव्यं यत्र तत्र यदा तदा ॥ २४१ ॥ क्लेशं भौति तथा द्वेष, वैरं त्यक्त्वा च सज्जनैः कर्तव्यं मद्दयाकर्म, दुष्टस्वार्थं विहाय च ।। २४२ ।। परस्परेषु भिन्नेषु धर्मेषु प्रेमभावतः द्वेषहिंसादिकं त्यक्त्वा वर्त्तव्यं च परस्परैः ॥ २४३ ॥ अन्यायादन्यलोकानां, दुःखदानं हि हिंसनम् अन्यप्रजीयदासत्व-, कृत्ये हिंसाऽस्ति तात्त्विकी ॥ २४४ ॥ दुष्टाशायाश्च ये दासा, हिंसां कुर्वन्ति पापिनः अन्यायोपार्जित वि, भुञ्जन्ति पापकर्मतः ॥ ४४२ ॥ पारतन्त्र्य हि हिंसाऽस्ति, स्वातन्त्र्यं स्वदया शुभा आत्मस्वातन्त्र्य सत्कृत्य, महिंसाऽस्ति स्वभावतः ||४४३ ॥ स्वाऽऽत्मराज्यमहिंसाऽस्ति, मोदराज्यंतु हिंसनम् शुडोपयोग एवाऽस्ति भावतः सद्दयाऽऽत्मनः ॥४४७|| मिध्यात्वरागवैरायो, भावहिंसाऽस्ति देहिनाम् ; अहिंसाऽस्ति समत्वं हि बाह्यतोऽपि क्रियावताम् ॥ २४८ ॥
For Private And Personal Use Only