Book Title: Atmashuddhipayog
Author(s): Buddhisagar
Publisher: Buddhisagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૯૫
"
भावहिंसां विना द्रव्य - हिंसया भवबन्धनम् नाऽस्ति तत्तु परिज्ञाय, भवन्तु स्वोपयोगिनः ॥ ३०९ ॥ कर्मबन्धनमुक्त्यर्थ, माऽऽत्मनस्त्वं दयां कुरु आत्मज्ञानेन स्वाsन्यानां दया सत्या प्रकाशते ॥ ३९०॥ दयां हिंसां न जानाति, मिथ्यादृष्टिरबोधतः दयां हिंसा च जानाति, सम्यग्दृष्टिः सुबोधतः ॥ ३११ ॥ सम्यज्ज्ञानी विजानाति, दयां हिंसां च बुद्धितः कुत्र दयाप्यहिंसा स्यात्, हिंसाऽपि कुत्रचिद्दया ।। ३१२ ॥ कुत्रचिद्बाह्यतोहिंसा, काययोगेन संभवेत्, तथापि भक्तिसेवा, रहिंसा चान्तरा यतः ॥ ३१३॥ सदेवगुरुसंघस्य, रक्षणार्थं च बाह्यतः दोषे सति महाधर्मो, जायन्ते बहुनिर्जराः ॥ ३१४॥ कायेन नैव हिंसाsपि, रागद्वेषादिमोहतः मानसिका भवेडिंसा, चाऽन्यघातविचारतः ||३१५॥ आन्तरा भावहिंसाऽस्ति, द्रव्यहिंसा तु बाह्यतः गीतार्थगुरुबोधेन, स्वाधिकारा दयां कुरु ॥ ३१६॥ प्रमादयोगतो हिंसा, स्वाऽन्यप्राणविनाशनात् हिंसाया लक्षणं ह्येत, त्तत्त्वार्थसूत्र भाषितम् ॥३१७॥ सम्यग्दृष्टियुता जैनाः सम्यग्दृष्टिगुणस्थिताः अविरताश्च हिंसाथै, रहिंसादिप्रकांक्षिणः ॥ ३१८॥ हिंसादौ दोषमन्तारो, हिंसादिदोषहानये उद्युक्ता हि दयालुन, रक्षार्थं ते प्रवर्त्तकाः ॥३१९॥ अणुव्रतधरा जैनाः श्रावका द्रव्यभावतः अणुभङ्गेन जीवानां, निरपराधिदेहिनाम् ॥ ३२० ॥
For Private And Personal Use Only

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130