Book Title: Atmashuddhipayog
Author(s): Buddhisagar
Publisher: Buddhisagar

View full book text
Previous | Next

Page 113
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ૧૧૨ विहाय विद्वेषमनन्यबुद्ध्या, सदाऽनुकूलां समतां भजस्व । तेनैव ते शुद्धमति र्भवित्री, ततोऽचिरादात्मसुखानुभावः ॥ ४२ ॥ शुद्धोभवेद्यत्रनिजाऽऽत्मधर्मोतादयस्तत्र लयं प्रयान्ति । Acharya Shri Kailassagarsuri Gyanmandir रागोऽस्ति कश्चिन्न निजाऽऽत्मरूपे, त्यागोऽस्तिकश्चिन्ननिजाऽऽत्मधर्मे ॥ ४३ ॥ त्यागं च वैराग्यमथानुरागं, चित्तोत्थितं वीक्ष्य च जागृहि त्वम् । मनोमृतौ नश्यति चित्तधर्मौनिजाssत्मरूपं तु विभाति नित्यम् ॥ ४४ ॥ व्रतादितश्चास्ति तु भिन्न आत्मा, निमित्तधर्मोऽपि ततोऽस्ति भिन्नः । आत्माऽस्त्यरूपी सच चिद्यनश्च, वर्णादयः सन्ति न तस्य रूपम् ॥ ४५ ॥ जडेष्वहंभाव उदेति यावतावन्न पूर्णां समुदेति शान्तिः । जष्वहंभाव उदेति नो चे तदा स आत्मा प्रविभाति मुक्तः ॥ ४६ ॥ अहंक्रियातो भवति भ्रमश्च, ज्ञेयश्वधर्मो निरहं क्रियातः । जडेषु कोप्यस्ति न चाऽऽत्मधर्मो, दुःखं लयं याति निजाऽऽत्मबोधात् ॥ ४७ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130