Book Title: Atmashuddhipayog
Author(s): Buddhisagar
Publisher: Buddhisagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૧૨૦
वहाऽऽत्मनि श्रेणिक चाऽऽत्मधर्म, परिष्कुरुष्वाऽखिलराज्यनीतीः।। दुःखं प्रजानां च निवारय त्वं, प्रजोन्नतिर्यत्र ततो हि धर्मः ॥ ९० ॥ सर्वप्रजाः स्वाऽऽत्मसमा प्रविद्धि, न्यायेन राज्यं गुणवन्कुरुष्व । दुष्टारिपून्दण्डय भूप राज्ये, दूरीकुरु त्वं दुरुपद्रवाँश्च ॥ ९१ ॥ सर्वप्रजानां च कुरुष्व रक्षा, सेवाख्यधर्म वह भूप रागैः। ज्ञानप्रचारं च कुरु प्रजासु, कुरुष्व दुष्टव्यसनाभिघातम् ॥ ९२ ॥ वश्यान्सदाशत्रुजनान्कुरु त्वं, सत्यांप्रियां ब्रूहि नरेन्द्रवाणीम् । मा धत्स्व राज्यादिकृतां महत्तां, स्वप्नेऽपि नो भूप कुरुष्व गर्वम् ॥ ९३ ॥ त्वं सर्ववर्णान्स्वसमान वेहि, नवाऽपमानं कुरु सन्मुनीनाम् । नीत्या रहस्यं सकलं विदित्वा, प्रचारय त्वं च मदुक्तनीतिम् ॥ ९४ ॥ स्वप्नेऽपि न त्वं कुरु पक्षपातं, लोभादिकं वारय संभवन्तम् । स्मृत्वा च मां गच्छ नरेन्द्र मयां, गुणज्ञ जीवेषु वहानुरागम् ॥९५ ॥
For Private And Personal Use Only

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130