Book Title: Atmashuddhipayog
Author(s): Buddhisagar
Publisher: Buddhisagar

View full book text
Previous | Next

Page 117
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६ ददाति कर्मप्रकृतिः सहाय, पातो भवेद्येन न चोर्ध्वगानाम् । भूत्वा स पश्चाच पुरः प्रयाति, भूत्वैकशुद्धो लभते स्वसिद्धिम् ।। ६६ ॥ प्रवर्तते ज्ञानिजनो जगत्सु, तथापि कुत्रापि न बध्यतेऽसौ । सम्यग्मते श्रेणिक राजराज, सम्यक् च सर्व तव भारतेश ॥ ६७ ॥ स्यात्सम्बरः श्रेणिक आस्रवोपि, स्याज्ज्ञानिनां वस्त्वखिलं हि सम्यक् । अस्तीशी ज्ञानवतां तु शक्तिश्चित्तेषु नाऽऽसक्तिरदेति यस्याः ॥ ६८ ।। मिथ्यात्वशास्त्रं प्रभवेच्च यद्यत्सम्यज्ज्ञजीवेषु तदस्ति सम्यक् । मिथ्यात्विनां ग्रन्थचयोऽपि सम्यग, मिथ्यात्वभावं लभते स नूनम् ॥ ६९ ॥ मिथ्यात्विनो मूढजनाश्च ये स्युः स्यात् सम्वरो प्यास्रवकृद्धि तेषाम् । ये हेतवः सन्ति भवाद्विमुक्ती, ते बन्धनार्थ प्रभवन्ति तेषाम् ॥ ७० ॥ विनाऽऽत्मबोधं सकलं हि मिथ्या, रोदो यथा निर्जनकाननेषु । देहस्य चित्तस्य च याः क्रियास्युगुणाय ताः सन्ति निजाऽऽत्मबोधात् ।। ७१ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130