Book Title: Atmashuddhipayog
Author(s): Buddhisagar
Publisher: Buddhisagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४
अनुक्रमो न पद्यानां, दयाग्रन्थे कृतो मया पुनर्दोषो न पद्येषु, सद्दया परिणामतः ॥४१८॥ मनोवाकायतो हिंसा, कृता कारापिता मया मिथ्या भवतु तत्सर्वा, दयाग्रन्थे कृते सति ॥४१९॥ मोहेन यद्यपर्यन्तं, हिंसाकर्म कृतं मया हिंसादिपापनाशोऽस्तु, कृतग्रन्थफलेन च ॥४२०॥ शरयुग्माऽधिकैः पद्यै-श्चतुः शतर्दयाकरः दयाग्रन्थः कृतोविश्व-लोकानां शान्तिकारकः ॥४२१॥ श्वबालस्य कृता पीडा, मया तत्पापशुद्धये प्रायश्चित्तं कृतं पूर्ण, दयाग्रन्थे कृते शुभे ॥४२२॥ अहिंसाधर्मसद्बुड्या, दयानन्थे कृते सति विश्वस्मिन्सर्वलोकेषु, दयावुद्धिः प्रवर्धताम् ॥४२३॥ सर्वविश्वस्थलोकानां दयाचारविवृद्धये दयया विश्वशान्त्यर्थ, दयाग्रन्थः प्रकाशताम् ॥४२४॥ खसिद्धिग्रहचन्द्राङ्क (१९८०) मिते वैक्रमवत्सरे मार्गशुक्ल द्वितीयायां, रवौ हि शुभभावतः ॥४२५॥ कृतः पूर्णों दयाग्रन्था, बुद्धिसागरसूरिणा मया च तद्दिने प्रीत्या, घंटाकर्णस्य मन्दिरे ॥४२६॥ घंटाकर्णस्य वीरस्य, प्रतिष्ठा च कृता मया मधुपुर्या (महुडी) स्थितिं कृत्वा, बुद्धिसागरसूरिणा।४२७॥ शमोऽस्तु सर्वविश्वस्य, दयाधर्मस्य सबलात् शान्तिस्तुष्टिश्च पुष्टिश्च, भवन्तु सर्वदेहिनाम् ॥४२८॥ ॐ अहंश्रीमहावीरः, सर्वज्ञः परमेश्वरः दयासत्यप्रचारेण, कुर्या द्विश्वस्य मङ्गलम् ॥४२९॥
ॐ अहमहावीर शान्तिः३
v
For Private And Personal Use Only

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130