Book Title: Atmashuddhipayog
Author(s): Buddhisagar
Publisher: Buddhisagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्थूलानां हिंसका नैव, स्थूलहिंसाविरामिणः औत्सर्गिकापवादाभ्यां, सापेक्षव्रतधारिणः ॥३२१।। सदेवगुरुधर्माणां, संघस्य भक्तिहेतवे सेवार्थ तस्य रक्षार्थ, मौत्सर्गिकाऽपवादिनः ॥३२२॥ भक्त्यादिधर्मकार्येषु, हिंसातः कर्मबन्धनम् स्वल्पं च निर्जरा बड्व्यो , महापुण्यं प्रजायते ॥३२३।। अतोगृहस्थिताः श्राद्धा, द्विविधाः स्वाऽधिकारतः देवादिभक्तिरक्षादौ, प्रवर्तन्ते यथातथम् ॥३२४॥ महाव्रतधराः सन्तो, मुक्ता हिंसादिपापतः साधवो विश्वजीवानां, त्रातारः सन्ति बन्धवः ॥३२५॥ औत्सर्गिकाऽपवादाभ्यां, धर्मसंघादिरक्षणे विश्वलोकदयाद्यर्थ, प्रवर्तन्ते यथातथम् ॥३६॥ द्रव्यभावदयावन्तः षद्कायजीवपालकाः निर्दोषाऽऽहारपानेन, जीवन्ति च यथातथम् ॥३२७।। गृहस्थत्यागिभेदेन, द्विधाधर्मोद्यनादितः सर्वज्ञेबोंधितः सत्यो, जैनधर्मः प्रवर्तते ॥३२८॥ द्रव्यभावीयहिंसातो, विरतिश्चभवेद्यथा तथा प्रवर्तनं कार्य, द्रव्यभावदयापरैः ॥३२९।। दर्शनज्ञानचारित्र,-मोक्षमार्गानुसारिभिः गृहस्थैस्त्यागिभिहिंसा, संत्याज्या च यथातथम् ॥३३॥ सर्वविश्वस्थवालानां, विद्याशालासु मानवैः अहिंसाधर्मशिक्षार्थ, वर्तितव्यं यथातथम् ॥३३॥ हिंसकानां प्रबोधार्थ, सर्वविश्वेषु वर्तिनाम् सर्वजातिप्रबन्धेन, वर्तितव्यं दयालुभिः ॥३३२॥
For Private And Personal Use Only

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130