Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 9
________________ आयासतशता। केलिचलाइलिलम्मितलक्ष्मीनामिर्मुरद्विषश्चरणः । स जयति येन कृता श्रीरनुरूपा पद्मनामस्य ।। १३॥ केलीति । क्रीडाचपलाडल्या लम्भितः स्पृष्टो लक्ष्म्याः। चरणसेवाकारिण्या इति भावः । नाभिर्येन । अत एव येन श्रीः पद्मनाभस्यानुरूपा । चरणरूपपद्मनामित्वेनेति भावः । कृता । स मुरद्विषश्चरणो जयति । ब्रह्मणोऽप्यसाध्यकार्यकरणादिति भावः ॥ रोमावली मुरारेः श्रीवत्सनिषेविताग्रभागा वः । उन्नालनामिनलिनच्छायेवोत्तापमपहरतु ॥ १४ ॥ रोमावलीति । मुरारेः । एवं च सामर्थ्यमभिव्यज्यते । तेन च तद्वत्त्वेऽपि भृगुचरणहननसहिष्णुत्वेन क्षमातिशयत्वम् । श्रीवत्सेन भृगुचरणचिन निषेवितः। तत्संबन्धवानित्यर्थः । अग्रभागो यस्याः सा । एतादृशी रोमावली । उदूर्व नालं यस्यैवंभूतं यत्नाभिनलिनं तच्छायेव । एवं च रोमावल्यां नालच्छायोत्प्रेक्षा श्रीवत्से च नलिनच्छायोत्प्रेक्षेति भावः । उत्तापं महासंतापमपहरतु । कमलच्छायायाः संतापाफ्नोदकत्वादिति भावः ॥ आदाय सप्ततन्त्रीचितां विपञ्चीमिव त्रयीं गायन् । मधुरं तुरंगवदनोचितं हरिर्जयति हयमूर्धा ॥ १५॥ आदायेति । सप्तसंख्याकानां तत्राणाममिष्टोमादीनां समाहारः सप्ततत्री तवाप्ताम् । तत्प्रतिपादनपरामिति यावत् । 'तन्त्रं प्रधाने यागेच' इति विश्वः । पक्षे तत्री लोहतन्तुविशेषः । त्रयीं विपञ्चीमिवादाय मधुरं तुरंगवदनानां गन्धर्वाणामुचितं योग्यम् । एवं चैतादृशगानकर्तृत्वाभावस्तेषामिति व्यज्यते । गायन् । हयमूर्धा हयग्रीवः। एवं च तुरंगवदनोचितगानकर्तृकत्वम् । हरिजयति । एता. दृशविलक्षणगानगुणरूपवत्त्वादिति भावः ॥ स जयति महावराहो जलनिधिजठरे चिरं निममापि । येनात्रैरिव सह फणिगणैर्बलादुद्धृता धरणी ॥ १६ ॥ स इति । येन जलनिधिजठरे । डलयोरक्यानडनिधित्वेन धरणीस्थानदानयोग्यत्वम् । चिरमित्यनेन झटिति निःसारणायोग्यवं व्यज्यते । निममापि ।

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 284