Book Title: Arya Saptashati Author(s): Govardhanacharya, Vasudev Lakshman Sharma Publisher: Pandurang Javji View full book textPage 8
________________ सुषिरपदमन्यानवलोकनीयत्वं व्यनक्ति । जघनमीक्षितुमागतमिवेत्युत्प्रेक्षा । एवं च लक्ष्मीजघनदर्शनलालसत्वं व्यज्यते । पिधानानर्थक्यं च । अब्जसदृशम् । एवं च नाभिकमलभ्रान्त्या पिधानायोग्यत्वमावेद्यते । चक्षुर्वो युष्मान्सुखयतु । पिहितेऽपि हि गोलकेऽन्यमार्गेणागस जघनविलोकनकारितया सुखलम्पटत्वेन सुख• दानस्य सुखप्राप्तिनिदानतयान्यस्य सुखजनकत्वं तस्येति भावः । नन्वत्र पुण्डरीकनयनस्येत्यनेन कमलसादृश्यसिद्धावजनिभमित्यस्य न तथा प्रयोजनमिति चेन। पुण्डरीकनयन इत्यत्र रूढिरेव । यद्वाब्जपदस्य वक्रतात्पर्यान्यथानुपपत्त्या रक्ताब्जे लक्षणा । एवं च लक्ष्म्याः सिताम्भोजत्वेन नेत्रज्ञानेऽपि रक्ताम्भोजत्वेनाज्ञानात् । तपानीकारेण निमृतमार्गेणागमनेन जघनदर्शनकारित्वेऽपि न श्रीकरपिहितत्वमिति व्यज्यते । अन्योऽप्यत्यन्तलम्पटो रूपान्तरेण निभृतमार्गेण च गत्वा खकार्य साधयनीति लौकिकम् । केचित्तु रत्नमित्युक्त रक्तरनमेव, अजमित्युक्त रकाब्जमेवोपलक्ष्यते कविसंप्रदायादिति वदन्ति ॥ ., स्याम श्रीकुचकुङ्कमपिञ्जरितमुरो मुरद्विषो जयति । दिनमुखनम इव कौस्तुभविभाकरो यद्विभूषयति ॥ ११॥ ममिति । श्यामम् । विष्णोः श्यामत्वादिति भावः। श्रीकुचकुङ्कमपिञ्जरितम् । एवं च दृढ़ालिङ्गनमभिव्यज्यते । तन्मुरद्विष उरः। एवं च कठिनत्वमुरसि व्यज्यते । वेन च श्रीकठिनकुचकुम्भसंघटनसहिष्णुत्वम् । जयति । सर्वोत्कर्षे लक्ष्मीदृढालिङ्गनं हेतुः । दिनमुखनभ इव । प्रातःकालीननभसः खतो नीलिमत्वात्संध्यासंवलितत्वाच्च तथाविधोरसः सादृश्यम् । कौस्तुभ एव विभाकरः । पक्षे कौस्तुभवद्विभाकरः सूर्यः । यदुरो विभूषयति । एवं च त्रिभुवनाधिपतेर्निरीहस्यापि कौस्तुभाभरणधारणमुदरवर्ल्सनेकलोकयुगपत्प्रकाशविश्रान्तिविधाननिदानतां ध्वनयति । एवं च विभाकरादतिशयो व्यज्यते कौस्तुमे ॥ . प्रतिबिम्बितप्रियातनु सकौस्तुभं जयति मधुमिदो वक्षः । पुरुषायितमभ्यस्यति लक्ष्मीर्यद्वीक्ष्य मुकुरमिव ॥ १२ ॥ प्रतीति । सकौस्तुभम् । अत एव प्रतिबिम्बिता प्रियायास्तनुर्यत्र । यन्मुकुरमिव वीक्ष्य लक्ष्मीः पुरुषायितं विपरीतरतमभ्यस्यति । तन्मधुभिदो वक्षः। एवं च दाळमावेद्यते खच्छताविशेषो वा । जयति । लक्ष्म्याः पुरुषायिताभ्यासनिदानतैव सर्वोत्कर्षे हेतुः । अन्योऽप्यादर्श प्रतिबिम्बमवलोक्यैवान्यानवलोकनीयचेयविशेषाभ्यासं करोतीति लौकिकम् ॥Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 284