Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji
View full book text
________________
काव्यमाला।
श्रेरिवाहिसमूहैः सह बलात्कारेण धरण्युड़ता। स महावराहः । एवं चतईष्ट्राया अन्ते दृढत्ववक्रत्वाभ्यां जठरान्तर्गतत्वेनात्ररूपफणिसमूहसहितधरोद्धारसामर्थ्यमुचितमिति व्यज्यते । जयति । अनन्यसाध्यकार्यकरणादिति भावः ॥
ब्रह्माण्डकुम्भकारं भुजगाकारं जनार्दनं नौमि ।
स्फारे यत्कणचक्रे धरा शरावश्रियं वहति ।। १७ ।। ब्रह्माण्डमिति । ब्रह्माण्डं कुम्भस्तं करोतीति तम् । एवं च यथा कुम्भकारस्य कुम्भकरणे न क्लेशस्तथास्य ब्रह्माण्डकरण इति व्यज्यते। भुजगस्याकार इवाकारो यस्य तम् । एवं च वास्तवैतद्रूपं याथातथ्येन निर्णतुमशक्यमिति व्यज्यते । जना. र्दनम् । एवं चैतद्भीतिरवश्यं विधेयेति ध्वन्यते। तेन चैतदाज्ञा नोल्लकनीयेति । स्फारे । एवं च धराशरावधीसंपादनयोग्यत्वं द्योत्सते । यस्य फणासमूहे धरा । एवं च महत्तरत्वं व्यज्यते । शरावस्य खल्पमृद्भाजनविशेषस्य श्रियं वहति । तत्तुल्या दृश्यत इति भावः । एवं च परमेश्वरभुजगरूपस्यातिविशालत्वं ध्वन्यते । अन्यस्यापि कुलालस्य चक्रे शरावो भवतीति लौकिकम् । अत्र धरा शरावश्रियं वहतीयेतावतैव फणचके स्फारत्वसिद्धावुत्तमकाव्यत्वे स्फारपदोपादानमनुचितमिसाभाति ॥
चण्डीजङ्घाकाण्डः शिरसा चरणस्पृशि प्रिये जयति ।
शंकरपर्यन्तजितो विजयस्तम्भः स्मरस्येव ॥ १८ ॥ चण्डीति । प्रिये शंकरे शिरसा चरणस्पृशि कोपापनोदनाय प्रणतिकारिणी सती शंकरमभिव्याप्य जयवतः स्मरस्य विजयस्तम्भ इव चण्डीजङ्घारूपः काण्डो वंशी जयति । खतः सुखविशेषजनकतया तुच्छविषयपराङ्मुखस्याप्येतादृश्यवस्थासंपादन नादिति भावः । एवं चैहिकामुष्मिकसुखापेक्षया सीमन्तिनीसङ्गसुखेऽधिकतरत्व मावेद्यते ॥
उन्नालनाभिपढेरुह इव येनावभाति शंभुरपि ।
जयति पुरुषायितायास्तदाननं शैलकन्यायाः ॥ १९ ॥ उन्नालेति । येन शंभुरपि । अपिना विष्णोरनवतारत्वेन नाभिपकेरुहत्वायो ग्यत्वं व्यज्यते । ऊर्ध्वनालं यत्राभिपकेरुहं तद्वानिव । यद्वा विष्णुरिबेत्यर्थः । एवं व शरीरस्य नालसाम्यदर्शनात्कृशामीत्वमभिव्यज्यते । अवभाति । पुरुषायिताया

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 284