Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 13
________________ आर्यासप्तशती । ९ शैलकन्यायाः । एवं च दार्व्यम् । तेन पुरुषायितसंपादनयोग्यत्वं ध्वन्यते । तदाननं जयति । अघटितघटनापटुत्वादिति भावः ॥ अङ्कनिलीनगजाननशङ्काकुलबाहुलेयहृतवसनौ । सस्मितहरकरकलितौ हिमगिरितनयास्तनौ जयतः ॥ २० ॥ 1 अङ्केति । अङ्के निलीनो यो गजाननस्तच्छङ्कया । स्तनयोः कुम्भिकुम्भसाम्यादिति भावः । आकुलः । कथं मां विहायैनमेव संगोप्य बहुकालं स्तन्यं प्रयच्छतीति घियेति भावः । यद्वा नयनपिधानक्रीडायां गजाननोऽङ्क एव निलीनो न त्वन्यत्र गत इति मत्वेति भावः । आकुलपदेन शीघ्रमविचारितकार्यकारित्वं व्यज्यते । यो बाहुलेयस्तारकजित्तेन हृतवसनौ । गजानननिर्णयार्थमिति भावः । सस्मितः । कथमतिगुप्तयोरप्याकस्मिकप्राकट्यमिति धियेति भावः । यो हरः । एवं च स्वत एव वसनहरणादिना तत्कार्यकारित्वं ध्वन्यते । तेन करकलितौ । करोतीति कर इति स्वतस्तत्कार्यकारित्वेऽपि हरप्रहितत्वेनाकलने दाद द्योत्यते । हिमगिरितनयायाः । एवं च शैत्यसहितकठिनत्वं द्योत्यते । तेन चावश्यकरकलनयोग्यत्वम् । अत एव हरोऽतिस्मेर इत्यपि युक्तम् । स्तनौ जयतः । भ्रमवतान्येनाविष्कृतत्वेऽप्यन्यस्य सुखसंपादनादिति भावः। यद्वा गजाननशिखिवाहनयोः सकलविघ्ननिवारकत्वकार्यमा - त्रपुरस्करणीयत्वात्तारकवधद्वारकविश्वसंतोषपोषकत्वनिदानस्तन्यवत्त्वादिति भावः । यद्वा स्मरविरोधिनोऽप्यानन्दजनकत्वादिति भावः ॥ / कण्ठोचितोऽपि कृतिमात्रनिरस्तः पदान्तिके पतितः । यस्याश्चन्द्रशिखः स्मरभल्लनिभो जयति सा चण्डी ॥ २१ ॥ कण्ठोचित इति । आलिङ्गनाऽपि । पक्षेऽर्धचन्द्राकारतया कण्ठलक्ष्ययोग्योऽपि । हुंकृतिमात्रेण, न तु करतर्जनादिना । पक्षे बाणादिना । निरस्तः । अत एव यस्याः पदान्तिके । प्रणामार्थमिति भावः । पक्षे वेगवशादिति भावः । स्मरशरसदृशः । अर्धचन्द्रशेखरत्वादिति भावः । स्मरभल्लनिभ इत्यनेन मानापनोदनसमर्थत्वं द्योत्यते । यद्वा स्मरभल्लस्य निर्भ छद्म । 'निभं छद्मसदृक्षयोः' इत्यभिधानात् । एवं च रूपान्तरसंपादनाद्भीत्यतिशयो द्योत्यते । चन्द्रशिखः शंभुः पतितः चन्द्रशिख इत्यनेनोद्दीपकचन्द्रस्यापि मानापनोदकत्वान्माने बाहुल्यमभिव्यज्य सा चण्डी जयति । मदनार्धनाराचादीनामप्यगणनादिति भावः ॥ .

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 284