________________
आर्यासप्तशती ।
९
शैलकन्यायाः । एवं च दार्व्यम् । तेन पुरुषायितसंपादनयोग्यत्वं ध्वन्यते । तदाननं जयति । अघटितघटनापटुत्वादिति भावः ॥
अङ्कनिलीनगजाननशङ्काकुलबाहुलेयहृतवसनौ ।
सस्मितहरकरकलितौ हिमगिरितनयास्तनौ जयतः ॥ २० ॥
1
अङ्केति । अङ्के निलीनो यो गजाननस्तच्छङ्कया । स्तनयोः कुम्भिकुम्भसाम्यादिति भावः । आकुलः । कथं मां विहायैनमेव संगोप्य बहुकालं स्तन्यं प्रयच्छतीति घियेति भावः । यद्वा नयनपिधानक्रीडायां गजाननोऽङ्क एव निलीनो न त्वन्यत्र गत इति मत्वेति भावः । आकुलपदेन शीघ्रमविचारितकार्यकारित्वं व्यज्यते । यो बाहुलेयस्तारकजित्तेन हृतवसनौ । गजानननिर्णयार्थमिति भावः । सस्मितः । कथमतिगुप्तयोरप्याकस्मिकप्राकट्यमिति धियेति भावः । यो हरः । एवं च स्वत एव वसनहरणादिना तत्कार्यकारित्वं ध्वन्यते । तेन करकलितौ । करोतीति कर इति स्वतस्तत्कार्यकारित्वेऽपि हरप्रहितत्वेनाकलने दाद द्योत्यते । हिमगिरितनयायाः । एवं च शैत्यसहितकठिनत्वं द्योत्यते । तेन चावश्यकरकलनयोग्यत्वम् । अत एव हरोऽतिस्मेर इत्यपि युक्तम् । स्तनौ जयतः । भ्रमवतान्येनाविष्कृतत्वेऽप्यन्यस्य सुखसंपादनादिति भावः। यद्वा गजाननशिखिवाहनयोः सकलविघ्ननिवारकत्वकार्यमा - त्रपुरस्करणीयत्वात्तारकवधद्वारकविश्वसंतोषपोषकत्वनिदानस्तन्यवत्त्वादिति भावः । यद्वा स्मरविरोधिनोऽप्यानन्दजनकत्वादिति भावः ॥
/
कण्ठोचितोऽपि कृतिमात्रनिरस्तः पदान्तिके पतितः । यस्याश्चन्द्रशिखः स्मरभल्लनिभो जयति सा चण्डी ॥ २१ ॥
कण्ठोचित इति । आलिङ्गनाऽपि । पक्षेऽर्धचन्द्राकारतया कण्ठलक्ष्ययोग्योऽपि । हुंकृतिमात्रेण, न तु करतर्जनादिना । पक्षे बाणादिना । निरस्तः । अत एव यस्याः पदान्तिके । प्रणामार्थमिति भावः । पक्षे वेगवशादिति भावः । स्मरशरसदृशः । अर्धचन्द्रशेखरत्वादिति भावः । स्मरभल्लनिभ इत्यनेन मानापनोदनसमर्थत्वं द्योत्यते । यद्वा स्मरभल्लस्य निर्भ छद्म । 'निभं छद्मसदृक्षयोः' इत्यभिधानात् । एवं च रूपान्तरसंपादनाद्भीत्यतिशयो द्योत्यते । चन्द्रशिखः शंभुः पतितः चन्द्रशिख इत्यनेनोद्दीपकचन्द्रस्यापि मानापनोदकत्वान्माने बाहुल्यमभिव्यज्य सा चण्डी जयति । मदनार्धनाराचादीनामप्यगणनादिति भावः ॥
.