________________
काव्यमाला ।
देवेऽर्पितवरणसजि बहुमाये वहति कैटभीरूपम् । .
जयति सुरासुरहसिता लज्जाजिमेक्षणा लक्ष्मीः ॥ २२ ॥ देव इति । अर्पितवरणस्रजि । एवं च सङ्गाद्यभावेन तात्त्विकरूपापरिचयो द्योत्यते । बहुमाये । एवं च रूपान्तरग्रहणसामर्थ्यमभिव्यज्यते । देवे विष्णौ । देवपदेन क्रीडारसिकतयानेकविधदेहधारणनिपुणत्वमावेद्यते । कैटभीरूपम् । दैत्यवञ्चनायेति भावः। वहति सति । एवं च प्रात्यक्षिकत्वेनापलापानहत्वं व्यज्यते । सुरासुरहसिता । कथं सर्वान्सुरान्विहायायमीदृशो वृत इति । अत एव लज्जाकुटिलेक्षणा । किमियं कामिन्येव पुरुषभ्रमान्मया वृतेति धियेति भावः। लक्ष्मीर्जयति । सर्वोपहासवत्त्वेऽप्यधैर्याकरणादिति भावः ॥
तानसुरानपि हरिमपि तं वन्दे कपटकैटभीरूपम् ।
यैर्यद्विम्बाधरमधुलुब्धैः पीयूषमपि मुमुचे ॥ २३ ॥ तानिति । तान्सकपटत्वेन प्रसिद्धानसुरानपि । सुष्टु रान्ति ते सुरास्तद्भिन्नान्सर्वदासमीचीनग्राहकानपि वन्दे । पीयूषादप्यधिकमेतस्या अधरामृतमिति तात्त्विकज्ञानेन समीचीनवस्तुप्राहकत्वादिति भावः । तं कपटशून्यत्वेन प्रसिद्धं कपटकैटभीरूपं हरिमपि वन्दे । कपटाज्ञानेऽपि कपटाकरदैत्यवञ्चनानिपुणकपटरूपधारणादिनि भावः । यैरसुरैर्यस्याः कैटभ्या लक्ष्म्या अधरमधुनि लुब्धैः । मधुपदमुन्मादजनकतां व्यनक्ति । पीयूषमपि । एवं च परित्यागानहत्वेऽपि तत्करणेन कैटभीरूपे विशेषशालित्वं धन्यते ॥
तल्पीकृताहिरगणितगरुडो हारामिहतविधियति ।
फणशतपीतश्वासो रागान्धायाः श्रियः केलिः ॥२४॥ * तल्पीति । तल्पीकृताहिः । एवं च सर्पबाधाया अप्यगणनेन रागातिशयो व्यज्यते । अगणितगरुडः । एवं च सर्वत्र गमनयोग्यत्वेन पक्षित्वेन विवेकशून्यतया वान्यत्रतत्कथनयोग्यत्वेऽप्येतदगणनयापि स एव द्योत्यते । हाराभिहतविधिः । हारस्य नाभिसंबन्धादिति भावः । आलिङ्गनान्तरभूतस्य त्यागार्हत्वेऽपि तदुपयेव प्रक्षेपण केलिज्ञानसंपादनेन लजाशून्यत्वेन स एव द्योत्यते । यद्वा कथमद्यापि नापसरतीति क्रोधानिकटवर्तिहाराभिहननेन हारापायमीतिशून्यत्वेन, अयं च हननकोधात्कुत्र कुत्र न वदिष्यतीति ज्ञानहीनतया स एवावेद्यते। शतसंख्याहि