________________
आर्यासप्तशती।
फणपीतश्वासः । एवं च संख्यायाः पानान्वयो न संभवतीति दूषणमपास्तम् । एवं च मरणभीतिशून्यत्वेन स एव ध्वन्यते । एवंविधा रागान्धायाः केलिः । एवं चान्याभिरङ्गनाभिर्यद्रागप्रकटनं क्रियते तन्मिथ्येति भावः। जयति । एतादृशप्रतिबन्धकसमूहेऽपि जायमानत्वादिति भावः । अत्र तल्पीकृताहिरित्यादिना व्यन्जनया रागातिशयप्रतिपादनादागान्धाया इत्यस्य न तथा प्रयोजनमियाभाति ॥
मेराननेन हरिणा सस्पृहमाकारवेदिनाकलितम् ।
जयति पुरुषायितायाः कमलायाः कैटभीध्यानम् ॥ २५॥ मेरेति । स्मरं किंचिद्धास्यवत् । सुखविशेषाविर्भावादिति भावः । यदाननम् । अर्थालक्ष्म्याः । तेन कृत्वाकारवेदिना स्मेराननरूपज्ञापकज्ञानवता हरिणाकलितमनुमितम् । स्मेराननेनेति हरिणेत्यस्यापि विशेषणम् । विपरीतरतकारिण्याः श्रियः सस्पृहम् । एवं च खस्यापि सुन्दरत्वेऽपि तद्विषयस्पृहावत्त्वेनानिर्वचनीयरूपशालित्वं कैटभ्यां व्यज्यते । कैटभीध्यानम् । एवं च स्त्रियोऽपि स्त्रीध्यानेनाद्भुतत्वं कैटभीरूपे द्योत्यते । जयति । त्रिभुवनाभिरामया रमयापि क्रियमाणत्वादिति भावः ॥
कृतकान्तकलिकुतुकश्रीशीतश्वाससेकनिद्राणः ।
घोरितविततालिरुतो नाभिसरोजे विधिर्जयति ॥ २६ ॥ कृतेति । कृतं कान्तं मनोज्ञं यत्केलिकुतुकम् । एवं चोत्साहविशेषेण सुरतसंपादनाच्छ्यसबाहुल्यं व्यज्यते । यत्तु कान्तेन विष्णुना सह यत्केलिकुतुकमिति तन्न । अन्येन सहाप्रसक्तेः । कान्तकेलिरित्यनेन सुरतक्रीडवायातीत्यपि न । अक्षक्रीडादेः संभवात् । नाभिसरोज इत्यादिनैव तत्प्रतीतेश्च । यया । एतादृशी या श्रीस्तस्याः शीताः । मदनानलसंतापनिवृत्तरिति भावः । ये श्वासास्तेषां सेकेन निद्राणः । सेकस्य द्रवद्रव्यीयत्वेन श्वासद्वारा वारिसंबन्धो लक्ष्यते। तेन च सुखनिद्रायोग्यत्वं व्यज्यते । विततालिरुतमेव घोरितं यस्य । नाभिसरोजे विधिर्जगनिर्माणकर्ता । एवं च श्रमवत्त्वान्निद्रायोग्यत्वं ध्वन्यते। जयति । सरोजशयनशीतमन्दसुगन्धसमीरणसुखखापवत्त्वादिति भावः ॥
एकरद द्वैमातुर निस्त्रिगुण चतुर्भुजापि पञ्चकर ।
जय षण्मुखनुत सप्तच्छदगन्धिमदाष्टतनुतनय ॥ २७ ॥ एकेति । एकदन्त । द्वैमातुर । पार्वतीगङ्गारूपमातृद्वयवत्त्वात् । निस्त्रिगुण ।