________________
काव्यमान।
एवं ब्रह्मरूपत्वं द्योत्यते । चतुर्भुजापि पञ्चकर । अपिर्विरोधाभासार्थकः । शुण्डामादाय पञ्चकरत्वम् । अन्यथा तु तस्यास्ति चतुर्भुजत्वम् । षण्मुखनुत । ज्येष्ठ त्वादिति भावः । सप्तच्छदगन्धिर्मदो यस्य । अष्टतनुर्महादेवखत्तनय । एताह. शस्वं जय । संख्याक्रममात्रमत्र ॥
मालकलशद्वयमयकुम्भमदम्भेन भजत गजवदनम् ।
यद्दानतोयतरलैस्तिलतुलनालम्बि रोलम्बैः ॥ २८ ॥ मङ्गलेति । मङ्गलकलशद्वयरूपी कुम्भौ यस्य तम् । एवं च विघ्नविनाशनक्षमत्वं ध्वन्यते । गजवदनम् । अदम्मेन । एवं च दम्मेन भजनमनर्थकमित्यावेद्यते। यदीयदानोदकार्थ चञ्चलैः । सौरभ्यशालित्वाद्दानोदकस्येति भावः । तरलपदेन सकलकुसुमगन्धाधिकत्वं दानगन्धे व्यज्यते । रोलम्बर्धमरैः । तिलसाम्यम् । त्यामत्वादिति भावः । एवं च कुम्भयोमहत्तरत्वं ध्वन्यते। आलम्बि । गणपतिविषयकोऽत्र भावध्वनिः ॥
याभिरनकः साङ्गीकृतः स्त्रियोऽस्त्रीकृताश्च ता येन ।
वामाचरणप्रवणौ प्रणमत तौ कामिनीकामौ ॥ २९ ॥ याभिरिति । याभिः स्त्रीभिरनको मदनः साङ्गीकृतः । खयं तत्साहाय्यसंपाददिति भावः । येन मदनेन ताः स्त्रियोऽस्त्रीकृताः । खविजयसाधनस्वेनेति भावः । इति वामस्य सुन्दरस्य । समीचीनस्येति यावत् । यदाचरणम् । समीचीनाचरणमेत्यर्थः । तत्र प्रवणौ तत्परौ । एवं चाङ्गहीनस्य साङ्गतासंपादनात्, एवमेव त्रीत्वेन नायकाधीनानां स्त्रीणां खास्त्ररूपतासंपादनेन नायकस्य तदधीनत्वसंपादमात्, उपकारप्रवणत्वमुभयोय॑ज्यते । अत एवैतादृक्कामिनीकामौ प्रणमत । एवं तत्सेवया समीचीनमेव भविष्यतीति ध्वन्यते। यत्राङ्गरहितस्याङ्गवत्तासंपादनात्, वीणां च स्त्रीभिन्नत्वसंपादनात् , बिरुद्धाचरणखाभाब्यात् , कामिनीकामौ प्रणमत, वं चैतयोः संगतिः सतां नोचितेति व्यज्यत इति व्याख्यानं तन्मङ्गलप्रकरणरोधादसमञ्जसमिवाभाति । यद्वा परस्परमप्येतयोरीदृशविपरीताचरणप्रवणत्वे ग्यान्यस्य तत्करणस्यातिसुगमत्वात्तत्सेवेव समुचितेति ध्वन्यते ॥ अथ कवीन्स्तौति
विहितघनालंकारं विचित्रवर्णावलीमयस्फुरणम् ।
शक्रायुधमिव वक्र वल्मीकभुवं कविं नौमि ॥ ३०॥ विहितेति।शक्रायुधमिव । विहिता घना बहवोऽलंकारा उपमादयो येन तम् ।