________________
आयसप्तशती ।
१३
पक्षे विहितमेघालंकरणम् । विचित्राणां वर्णानामक्षराणां यावली तत्प्रचुरं स्फुरणं स्कूर्तिर्यस्य तम् । पक्षे वर्णा नीलपीतादयस्तत्पतिर्विकारः स्फुरणमुत्पत्तिर्यस्य सम् । वक्रं वक्रोक्तिकुशलम् । पक्षे यथाश्रुतम् । वल्मीकभुवं बाल्मीकिम् । शक्रधनुषोऽपि तत एवोत्पत्तिरिति लौकिकम् । कविं काव्यकर्तारं नौमि । रूपकमत्रालंकारः ॥
1
ब्यासगिसं निर्वास सारं विश्वस्य भारतं वन्दे । भूषणतयैव संज्ञां यदडितां भारती वहति ॥ ३१ ॥
व्यासेति । व्यासवचसां निर्यासम् । एवं च तत्त्वार्थवत्त्वं सरसत्वं च व्यज्यते । विश्वस्य जगतः सारम् । एवं चेत उत्पन्नपुरुषार्थसाधनत्वं ध्वन्यते । एतादृशं भारतं वन्दे । यदङ्कितां भारतचिह्नितां संज्ञां भूषणतयैव भारती सरस्वती वहति । एवं च भारत्या भूषणरूपतन्नामप्रसिद्धनामवत्त्वप्रतिपादनेन सर्वप्रन्याधिकत्वमावेयते भारते । एवकारेण स्वाभाविकत्वव्युदासः । अन्योऽप्यप्रसिद्धः प्रसिद्धस्य कस्यचिन्नाना प्रसिद्धो भवतीति लौकिकम् । भारतकर्तृत्वेन व्यासस्तुतिरित्यवधेयम् ॥
सति काकुत्स्थकुलोन्नतिकारिणि रामायणे किमन्येन । रोहति कुल्या गङ्गापूरे किं बहुरसे वहति ॥ ३२ ॥
सतीति । काकुत्स्थानां कुलम् । तदुन्नतिकारिणि । कुलपदेन सर्वेषामप्युन्नतिसंपादनेन शतकोटिप्रविस्तरत्वं तेन च बहुतरप्रमेयवत्त्वं च व्यज्यते । बहुरसे प्रभूतशृङ्गारादिरसशालिनि । पक्षे बहुजलवति । एवं च तापापनोदकत्वं व्यज्यते । अत एवैतादृशरामायणे सत्यन्यकाव्येन किम् । तेन गतार्थत्वादिति भावः । अत्र दृष्टान्तमाह – गङ्गापूरे वहति सति कुल्याल्पा कृत्रिमा सरिकि रोहति । काक्का नेत्यर्थः । न चित्तपथमवतरतीति भावः ॥
अतिदीर्घजीविदोषाद्व्यासेन यशोऽपहारितं हन्त ।
कैर्नोच्येत गुणाढ्यः स एव जन्मान्तरापन्नः ॥ ३३ ॥
अतीति । अत्यन्तदीर्घजीवित्वदोषात् । चिरकालजीवित्वरूपदोषादित्यर्थः । अतिचिरजीवित्वस्यान्यत्र गुणत्वेऽप्यत्र दोषत्वमिति भावः । दोषपदं परिहरणीयत्वं व्यञ्जयति । व्यासेन यशः । हन्त इति खेदे । अपहारितम् । यशःपदमत्यन्तसंरक्षणीयत्वं व्यञ्जयति । अत एव खेदौचित्यम् । एतदेवाह - स एव व्यास एव