________________
काव्यमाला ।
जन्मान्तरमापनो गुणान्यो बृहत्कथाकर्ता कै!च्येत । अपि तु सर्वैरित्यर्थः । एवं गुणान्यव्यवहारे व्यासस्य चिरजीवित्वमेव प्रतिबन्धक संवृत्तमिति भावः । एवं चैतादृग्यशसि स्पृहा न कृता, किंतु चिरजीवित्व इति महन्मूर्खत्वमावेद्यते व्यासे । तेन च व्यासाधिकत्वं गुणाढ्ये ॥
श्रीरामायणभारतबृहत्कथानां कवीन्नमस्कुर्मः ।
त्रिस्रोता इव सरसा सरखती स्फुरति यैर्भिन्ना ॥ ३४ ॥ श्रीति। वाल्मीकिव्यासगुणाढ्यानमस्कुर्मः। यैर्वाल्मीक्यादिगुणैर्भिन्ना। विलक्षपरीत्यनुसरणादिति भावः । सरसा ऋकारादिमती । पक्षे सजला । वाणी सती नदीव त्रिस्रोता गङ्गेच । खर्गमृत्युपातालेषु प्रवाहवत्त्वाद्गङ्गायाः । एवं च वाल्मीक्यादिवाचां सकलकल्मषविनाशकत्वं द्योत्यते। स्फुरति । एवं च त्रितयवाचा वास्तवैकरूपत्वमेवेति व्यज्यते । तेन च वाल्मीक्यादित्रितयस्य समानत्वमावेद्यते। यद्वा वाल्मीक्यपेक्षया किंचिन्यूनत्वं व्यासे, ततो गुणाढ्य इति ध्वन्यते । पूर्वत्र श्रीपदं त्रिष्वप्यन्वेति, अत्र रामायणमात्रे ॥
साकूतमधुरकोमलविलासिनीकण्ठकूजितप्राये।
शिक्षासमयेऽपि मुदे रतलीलाकालिदासोक्ती ॥ ३५ ॥ साकृतेति । साकूतं साभिप्रायम् , मधुरं रसोत्कर्षाधायकरसनिष्ठगुणवत् , कोमलं शब्दगुणशालि एतादृशं यद्विलासशालिन्याः कण्ठकूजितं तत्प्राये । प्रायःशब्दः क्रमेण बाहुल्यसादृश्योपस्थापकः । रतलीलाकालिदासोती शिक्षासमयेऽपि मुदे । एवं चोभयोः समत्वमिति भावः । एवं च सर्वजनस्याप्युपदेशसमये बहुधा दुःखदत्वेन रतलीलाकालिदासोक्त्योः सुखप्रदत्वेन वाग्विलासाधिक्यं ध्वन्यते ॥
भवभूतेः संबन्धाद्भूधरभूरेव भारती भाति ।
एतत्कृतकारुण्ये किमन्यथा रोदिति यावा ।। ३६ ।। भवेति। भवभूतेः शिवश्वर्यस्य संबन्धाद्भारत्येव सरखत्येव भूधरभूनगेन्द्रकन्या भाति । एवं चाणिमाद्यैश्वर्यान्तर्गतेच्छानभिघातरूपप्राकाम्याद्भारत्या नगेन्द्रकन्यारूपत्वम् । तथा भवभूतेः कवेः । एवं चेशैश्वर्याभेदबोधनेन खेच्छानुरूपकार्यकारित्वं व्यज्यते । संबन्धाद्धारत्येव भूधरभूः पर्वतभूमिः । एवं च नान्यथा शङ्कनीयत्वमिति भावः । भाति । अन्यथतत्कृतकरुणरसप्रधाने 'अपि प्रावा रोदित्यपि दलति