________________
आर्यासप्तशती। वज्रस्य हृदयम्' इत्युत्तरचरित्रीयपद्ये प्रावा शैलः । 'प्रावाणौ शैलपाषाणी' इत्यमरः। किमिति रोदिति । यद्वा भवभूतेः संबन्धादित्यस्य भवैश्वर्याविनाभावादित्यर्थः । भूधरमः शैलतनया भारती भाति । सरखतीरूपेण दृश्यत इत्यर्थः । एवं च यत्रशैश्वर्य तत्र शैलसुतयावश्यं स्थेयमिति नियमादीशैश्वर्यवति कवौ शैलसुता सरखतीरूपेणावस्थितेति भावः । एवं चैतत्कवेर्दक्षिणामूर्युपासकत्वं व्यज्यते । अत एव भवस्य शंभो तिरैश्वर्य यस्मिनिति नानि व्युत्पत्तिरपि संगच्छते । अथवा कवी भवभूत्यमेदबोधनेन पार्वतीसत्त्वमावश्यकम् । विपक्षे तर्कमाह-अन्यथा। एतत्कृतकारुण्ये । एवं चान्यैर्बहुभिः करुणरसप्रधानानि काव्यानि विहितानि, परंतु न तत्र शैलरोदनमिति भावः । पावा किमिति रोदिति । एवं चैतत्कृतकारुण्ये जामातृसंबन्धेन शैलस्यापि रोदनमिति भावः । अथवा । भवभूतेः शिवैश्वर्यस्य संबन्धात् । तत्कृपात इत्यर्थः । भारती भूधरभूरेव । भूधर इति कविनाम । भवभूतिरिति 'गिरिजायाः कुचौ वन्दे भवभूतिसिताननौं' इति पद्यकरणोत्तरं पदवीनाम । तस्माद्भवत्वे दृश्येव जाता । एवं च सरखतीप्रचारस्तत एवेत्सन्यकविव्यतिरेको ध्वन्यते । नन्वे. तत्कवर्भूधरत्वे किं प्रमाणमत आह–अन्यथा । एतत्कवेर्भूधरत्वाभावे । एतत्कृतकारुण्ये प्रावा पाषाणः कथं रोदिति । एवं चैतत्कृतकारुण्योत्तरकालीनपाषाणरोदनस्यैतत्संबन्धाभावेऽन्यथानुपपत्त्या कवो भूधरत्वसिद्धिः । एवं च जन्यजनकभावसंबन्धाद्रोदने युक्ततैव । एवकार इवार्थ इति केचित् ॥
जाता शिखण्डिनी प्राग्यथा शिखण्डी तथावगच्छामि ।
प्रागल्भ्यमधिकमातुं वाणी बाणो बभूवेति ॥ ३७ ॥ जातेति । प्राक्पूर्व यथा शिखण्डिनी द्रुपदपुत्री शिखण्डी द्रुपदपुत्ररूपा बभूव , तथा वाणी सरखत्यधिकप्रागल्भ्यप्राप्त्यर्थ बाणः कादम्बरीकर्तृरूपा बभूव । पवर्गतृतीयान्तस्थबवकारयोरमेदादिति भावः । एवं च सरखतीतोऽधिकत्वं बाने योत्यते । वस्तुतस्तु बवयोरैक्ये दोषाढ़ेद एव ॥
यं गणयन्ति गुरोरनु यस्यास्ते धर्मकर्म संकुचितम् ।
कविमहमुशनसमिव तं तातं नीलाम्बरं वन्दे ॥ ३८ ॥ यमिति । यं गुरोः प्रभाकरात् । एवं च तत्र प्रभाकरतत्रनिपुणत्वं तातस्यावेद्यते । पक्षे बृहस्पतेः । अनु पश्चाद्गणयन्ति । यस्यास्ते नाशे । पक्षे सूर्यमण्डल