Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 19
________________ आर्यासप्तशती। वज्रस्य हृदयम्' इत्युत्तरचरित्रीयपद्ये प्रावा शैलः । 'प्रावाणौ शैलपाषाणी' इत्यमरः। किमिति रोदिति । यद्वा भवभूतेः संबन्धादित्यस्य भवैश्वर्याविनाभावादित्यर्थः । भूधरमः शैलतनया भारती भाति । सरखतीरूपेण दृश्यत इत्यर्थः । एवं च यत्रशैश्वर्य तत्र शैलसुतयावश्यं स्थेयमिति नियमादीशैश्वर्यवति कवौ शैलसुता सरखतीरूपेणावस्थितेति भावः । एवं चैतत्कवेर्दक्षिणामूर्युपासकत्वं व्यज्यते । अत एव भवस्य शंभो तिरैश्वर्य यस्मिनिति नानि व्युत्पत्तिरपि संगच्छते । अथवा कवी भवभूत्यमेदबोधनेन पार्वतीसत्त्वमावश्यकम् । विपक्षे तर्कमाह-अन्यथा। एतत्कृतकारुण्ये । एवं चान्यैर्बहुभिः करुणरसप्रधानानि काव्यानि विहितानि, परंतु न तत्र शैलरोदनमिति भावः । पावा किमिति रोदिति । एवं चैतत्कृतकारुण्ये जामातृसंबन्धेन शैलस्यापि रोदनमिति भावः । अथवा । भवभूतेः शिवैश्वर्यस्य संबन्धात् । तत्कृपात इत्यर्थः । भारती भूधरभूरेव । भूधर इति कविनाम । भवभूतिरिति 'गिरिजायाः कुचौ वन्दे भवभूतिसिताननौं' इति पद्यकरणोत्तरं पदवीनाम । तस्माद्भवत्वे दृश्येव जाता । एवं च सरखतीप्रचारस्तत एवेत्सन्यकविव्यतिरेको ध्वन्यते । नन्वे. तत्कवर्भूधरत्वे किं प्रमाणमत आह–अन्यथा । एतत्कवेर्भूधरत्वाभावे । एतत्कृतकारुण्ये प्रावा पाषाणः कथं रोदिति । एवं चैतत्कृतकारुण्योत्तरकालीनपाषाणरोदनस्यैतत्संबन्धाभावेऽन्यथानुपपत्त्या कवो भूधरत्वसिद्धिः । एवं च जन्यजनकभावसंबन्धाद्रोदने युक्ततैव । एवकार इवार्थ इति केचित् ॥ जाता शिखण्डिनी प्राग्यथा शिखण्डी तथावगच्छामि । प्रागल्भ्यमधिकमातुं वाणी बाणो बभूवेति ॥ ३७ ॥ जातेति । प्राक्पूर्व यथा शिखण्डिनी द्रुपदपुत्री शिखण्डी द्रुपदपुत्ररूपा बभूव , तथा वाणी सरखत्यधिकप्रागल्भ्यप्राप्त्यर्थ बाणः कादम्बरीकर्तृरूपा बभूव । पवर्गतृतीयान्तस्थबवकारयोरमेदादिति भावः । एवं च सरखतीतोऽधिकत्वं बाने योत्यते । वस्तुतस्तु बवयोरैक्ये दोषाढ़ेद एव ॥ यं गणयन्ति गुरोरनु यस्यास्ते धर्मकर्म संकुचितम् । कविमहमुशनसमिव तं तातं नीलाम्बरं वन्दे ॥ ३८ ॥ यमिति । यं गुरोः प्रभाकरात् । एवं च तत्र प्रभाकरतत्रनिपुणत्वं तातस्यावेद्यते । पक्षे बृहस्पतेः । अनु पश्चाद्गणयन्ति । यस्यास्ते नाशे । पक्षे सूर्यमण्डल

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 284