Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 18
________________ काव्यमाला । जन्मान्तरमापनो गुणान्यो बृहत्कथाकर्ता कै!च्येत । अपि तु सर्वैरित्यर्थः । एवं गुणान्यव्यवहारे व्यासस्य चिरजीवित्वमेव प्रतिबन्धक संवृत्तमिति भावः । एवं चैतादृग्यशसि स्पृहा न कृता, किंतु चिरजीवित्व इति महन्मूर्खत्वमावेद्यते व्यासे । तेन च व्यासाधिकत्वं गुणाढ्ये ॥ श्रीरामायणभारतबृहत्कथानां कवीन्नमस्कुर्मः । त्रिस्रोता इव सरसा सरखती स्फुरति यैर्भिन्ना ॥ ३४ ॥ श्रीति। वाल्मीकिव्यासगुणाढ्यानमस्कुर्मः। यैर्वाल्मीक्यादिगुणैर्भिन्ना। विलक्षपरीत्यनुसरणादिति भावः । सरसा ऋकारादिमती । पक्षे सजला । वाणी सती नदीव त्रिस्रोता गङ्गेच । खर्गमृत्युपातालेषु प्रवाहवत्त्वाद्गङ्गायाः । एवं च वाल्मीक्यादिवाचां सकलकल्मषविनाशकत्वं द्योत्यते। स्फुरति । एवं च त्रितयवाचा वास्तवैकरूपत्वमेवेति व्यज्यते । तेन च वाल्मीक्यादित्रितयस्य समानत्वमावेद्यते। यद्वा वाल्मीक्यपेक्षया किंचिन्यूनत्वं व्यासे, ततो गुणाढ्य इति ध्वन्यते । पूर्वत्र श्रीपदं त्रिष्वप्यन्वेति, अत्र रामायणमात्रे ॥ साकूतमधुरकोमलविलासिनीकण्ठकूजितप्राये। शिक्षासमयेऽपि मुदे रतलीलाकालिदासोक्ती ॥ ३५ ॥ साकृतेति । साकूतं साभिप्रायम् , मधुरं रसोत्कर्षाधायकरसनिष्ठगुणवत् , कोमलं शब्दगुणशालि एतादृशं यद्विलासशालिन्याः कण्ठकूजितं तत्प्राये । प्रायःशब्दः क्रमेण बाहुल्यसादृश्योपस्थापकः । रतलीलाकालिदासोती शिक्षासमयेऽपि मुदे । एवं चोभयोः समत्वमिति भावः । एवं च सर्वजनस्याप्युपदेशसमये बहुधा दुःखदत्वेन रतलीलाकालिदासोक्त्योः सुखप्रदत्वेन वाग्विलासाधिक्यं ध्वन्यते ॥ भवभूतेः संबन्धाद्भूधरभूरेव भारती भाति । एतत्कृतकारुण्ये किमन्यथा रोदिति यावा ।। ३६ ।। भवेति। भवभूतेः शिवश्वर्यस्य संबन्धाद्भारत्येव सरखत्येव भूधरभूनगेन्द्रकन्या भाति । एवं चाणिमाद्यैश्वर्यान्तर्गतेच्छानभिघातरूपप्राकाम्याद्भारत्या नगेन्द्रकन्यारूपत्वम् । तथा भवभूतेः कवेः । एवं चेशैश्वर्याभेदबोधनेन खेच्छानुरूपकार्यकारित्वं व्यज्यते । संबन्धाद्धारत्येव भूधरभूः पर्वतभूमिः । एवं च नान्यथा शङ्कनीयत्वमिति भावः । भाति । अन्यथतत्कृतकरुणरसप्रधाने 'अपि प्रावा रोदित्यपि दलति

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 284