Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 16
________________ काव्यमान। एवं ब्रह्मरूपत्वं द्योत्यते । चतुर्भुजापि पञ्चकर । अपिर्विरोधाभासार्थकः । शुण्डामादाय पञ्चकरत्वम् । अन्यथा तु तस्यास्ति चतुर्भुजत्वम् । षण्मुखनुत । ज्येष्ठ त्वादिति भावः । सप्तच्छदगन्धिर्मदो यस्य । अष्टतनुर्महादेवखत्तनय । एताह. शस्वं जय । संख्याक्रममात्रमत्र ॥ मालकलशद्वयमयकुम्भमदम्भेन भजत गजवदनम् । यद्दानतोयतरलैस्तिलतुलनालम्बि रोलम्बैः ॥ २८ ॥ मङ्गलेति । मङ्गलकलशद्वयरूपी कुम्भौ यस्य तम् । एवं च विघ्नविनाशनक्षमत्वं ध्वन्यते । गजवदनम् । अदम्मेन । एवं च दम्मेन भजनमनर्थकमित्यावेद्यते। यदीयदानोदकार्थ चञ्चलैः । सौरभ्यशालित्वाद्दानोदकस्येति भावः । तरलपदेन सकलकुसुमगन्धाधिकत्वं दानगन्धे व्यज्यते । रोलम्बर्धमरैः । तिलसाम्यम् । त्यामत्वादिति भावः । एवं च कुम्भयोमहत्तरत्वं ध्वन्यते। आलम्बि । गणपतिविषयकोऽत्र भावध्वनिः ॥ याभिरनकः साङ्गीकृतः स्त्रियोऽस्त्रीकृताश्च ता येन । वामाचरणप्रवणौ प्रणमत तौ कामिनीकामौ ॥ २९ ॥ याभिरिति । याभिः स्त्रीभिरनको मदनः साङ्गीकृतः । खयं तत्साहाय्यसंपाददिति भावः । येन मदनेन ताः स्त्रियोऽस्त्रीकृताः । खविजयसाधनस्वेनेति भावः । इति वामस्य सुन्दरस्य । समीचीनस्येति यावत् । यदाचरणम् । समीचीनाचरणमेत्यर्थः । तत्र प्रवणौ तत्परौ । एवं चाङ्गहीनस्य साङ्गतासंपादनात्, एवमेव त्रीत्वेन नायकाधीनानां स्त्रीणां खास्त्ररूपतासंपादनेन नायकस्य तदधीनत्वसंपादमात्, उपकारप्रवणत्वमुभयोय॑ज्यते । अत एवैतादृक्कामिनीकामौ प्रणमत । एवं तत्सेवया समीचीनमेव भविष्यतीति ध्वन्यते। यत्राङ्गरहितस्याङ्गवत्तासंपादनात्, वीणां च स्त्रीभिन्नत्वसंपादनात् , बिरुद्धाचरणखाभाब्यात् , कामिनीकामौ प्रणमत, वं चैतयोः संगतिः सतां नोचितेति व्यज्यत इति व्याख्यानं तन्मङ्गलप्रकरणरोधादसमञ्जसमिवाभाति । यद्वा परस्परमप्येतयोरीदृशविपरीताचरणप्रवणत्वे ग्यान्यस्य तत्करणस्यातिसुगमत्वात्तत्सेवेव समुचितेति ध्वन्यते ॥ अथ कवीन्स्तौति विहितघनालंकारं विचित्रवर्णावलीमयस्फुरणम् । शक्रायुधमिव वक्र वल्मीकभुवं कविं नौमि ॥ ३०॥ विहितेति।शक्रायुधमिव । विहिता घना बहवोऽलंकारा उपमादयो येन तम् ।

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 284