Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 11
________________ आर्यासप्तशती । कन्यायाः । एवं च दार्व्यम् । तेन पुरुषायितसंपादनयोग्यत्वं ध्वम्यते । तदाi जयति । अघटितघटनापट्टत्वादिति भावः ॥ अङ्कनिलीनगजाननशङ्काकुलबाहुलेयहृतवसनौ । सस्मितहरकरकलितौ हिमगिरितनयास्तनौ जयतः ॥ २० ॥ 1 अङ्केति । अड्डे निलीनो यो गजामनस्तच्छङ्कया । स्तनयोः कुम्भिकुम्भसाम्याते भावः । आकुलः । कथं मां विहायैनमेव संगोप्य बहुकालं स्तन्यं प्रयच्छति घियेति भावः । यद्वा नयनपिधानक्रीडायां गजाननोऽङ्क एव निलीनो न न्यत्र गत इति मत्वेति भावः । आकुलपदेन शीघ्रमविचारितकार्यकारित्वं ज्यते । यो बाहुलेयस्तारकजित्तेन हृतवसनौ । गजानननिर्णयार्थमिति भावः । स्मतः । कथमतिगुप्तयोरप्याकस्मिकप्राकव्यमिति धियेति भावः । यो हरः । एवं स्वत एव वसनहरणादिना तत्कार्यकारित्वं ध्वन्यते । तेन करकलितौ । करोतीति इति खतस्तत्कार्यकारित्वेऽपि हरप्रहितत्वेनाकलने दा द्योत्यते । हिमगिरितनगः। एवं च शैत्यसहितकठिनत्वं द्योत्यते । तेन चावश्यकरकलनयोग्यत्वम्। अत हरोऽतिस्मेर इत्यपि युक्तम् । स्तनौ जयतः । भ्रमवतान्येनाविष्कृतत्वेऽप्यन्यस्य संपादनादिति भावः । यद्वा गजाननशिखिवाहनयोः सकलविघ्ननिवारकत्वकार्यमारस्करणीयत्वात्तारकबधद्वारकविश्वसंतोषपोषकत्वनिदानस्तन्यवत्त्वादिति भावः । । स्मरविरोधिनोऽप्यानन्दजनकत्वादिति भावः ॥ कण्ठोचितोऽपि कृतिमात्रनिरतः पदान्तिके पतितः । यस्याश्चन्द्रशिखः स्मरमलनिभो जयति सा चण्डी ॥ २१ ॥ कण्ठोचित इति । आलिङ्गनाहोंऽपि । पक्षेऽर्धचन्द्राकारतया कण्ठलक्ष्ययोऽपि । हुंकृतिमात्रेण, न तु करतर्जनादिना । पक्षे बाणादिना । निरस्तः । अत यस्याः पदान्तिके । प्रणामार्थमिति भावः । पक्षे वेगवशादिति भावः । स्मरप्रदृशः । अर्धचन्द्रशेखरत्वादिति भावः । स्मरभल्लनिभ इत्यनेन मानापनोदनर्थत्वं द्योत्यते । यद्वा स्मरभलस्म निभं छद्म । 'निमं छद्मसदृक्षयोः' इत्यभिधा। एवं च रूपान्तरसंपादनाद्भीत्यतिशयो द्योत्यते । चन्द्रशिखः शंभुः पतितः । शिख इत्यनेनोद्दीपकचन्द्रस्यापि मानापनोदकत्वान्माने बाहुल्यमभिव्यज्यते । चण्डी जयति । मदनार्धनाराचादीनामप्यगणनादिति भावः ॥

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 284