Book Title: Arihantna Atishayo
Author(s): Tattvanandvijay
Publisher: Sangmarg Prakashan
View full book text
________________ (12) ब्रह्मात्मकं परमसौख्यमयं प्रधान - श्वर्य कुकर्मरहितं सहितं गुणोघैः / त्वद्रूपमेव समवेक्ष्य निजस्वरूपं, ते योगिनस्तव पदं भगवल्लभन्ते / / 27 / / त्वद्गोत्रमन्त्रवरवर्णततिं स्वकीये, हृत्पङ्कजे प्रवरपत्रततो निधाय / यो ध्यायति त्रिजगदीश्वर ! तस्य पुंसो, वश्या भवन्ति सकला अपि सिद्धयस्ताः / / 28 / / सालत्रयान्तरतिशुभ्रतरातपत्रं, सिंहासनस्थममरेश्वरसेव्यमानम् / त्वां भासुरातिशयमाशयदेशमध्ये, ध्यायत्ररो भवति भाजनमोशताया: / / 29 / / (13) अशोक: शोकार्ति हरति कुरुते चाद्धतसुख, सदा पोष्यी वृष्टिः किमु नु सुखसृष्टिस्त्रिजगतः / ध्वनिर्दिव्यः श्रोत्रेष्वमृतरसदानैकरसिकः, शरच्चन्द्रज्योत्स्नाधवलचमराली गतमला / / 30 / / स्फुरद्रत्नं सिंहासनमुरुरुचां मण्डलमिदं जनाल्हादिप्रोद्यन्मधुरिमगुणो दुन्दुभिरवः / सितज्योतिच्छत्रत्रितयमिति रम्या अतिशया - स्तव स्वामिन् ! ध्याता अपि विदधते मङ्गलततिम् / / 31 / / (14) रुचिरचमरमाला श्वेतरम्यातपत्र - त्रितयमनुपमोऽयं दुन्दुभीनां निनादः / विविधकुसुमवृष्टिश्चैत्यवृक्षः सुगन्धो, मणिनिकरविनिर्यकान्तिसिंहासनं च / / 14 / / प्रसृतबहुलतेज: पिण्डभामण्डलश्रीः, श्रवणपरमसौख्यदायिदिव्यध्वनिश / इति जिनवर ! वीक्ष्य प्रातिहार्यश्रियं ते, न भवति भुवनालङ्कार ! कस्य प्रमोदः' / / 15 / / युग्मम् / रत्नानि रोहणगिरेः कनकानि मेरो - रूप्यानि च प्रवररूप्यगिरगुहीत्वा / * मंत्राधिराज-चिन्तामणि जैनस्तोत्रसंदोहः-तस्य द्वितीयो विभागः तत्र श्रीभुवनसुन्दरसूरिप्रणीतं श्रीजीराउलीमण्डलश्रीपार्श्वजिनस्तवनम् पृष्ठ-१५१-५२ मन्त्राधिराजचिन्तार्माण जनस्तोत्रसंदोह - तस्य द्वितीयो विभागः तत्र श्रीभुवनसुन्दरसूरि संदृब्यं श्रीपार्श्वनाथस्तवनम् / पृष्ठ-१५८ 1. मन्त्राधिराजचिन्तामणि: जैनस्तोत्रसंदोह - तस्य द्वितीयो विभाग: तत्र श्रीभुवनसुन्दरसूरिप्रणीतं श्रीकृल्पाकतीर्थालङ्कारश्रीऋषभजिनस्तवनम् - पृष्ठ-१६० 268 અરિહંતના અતિશયો

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294