Book Title: Arihantna Atishayo
Author(s): Tattvanandvijay
Publisher: Sangmarg Prakashan

View full book text
Previous | Next

Page 283
________________ द्वारेषु मौक्तिकमयी: प्रतिबिम्बभाजो - माला विलोक्य मणिभूषु सितेतरासु / रस्ता किमस्मदुरुहारलतेति यस्या - मत्याकुला मृगदृशो हृदयं स्पृशन्ति / / 24 / / तोरणस्थशितिरुङ्मणिमालां, बिम्बितां स्फटिकभूमिषु यत्र / / वीक्ष्य वातचपलां चलतोऽहे - भीतितोऽतितरला महिलाः स्युः / / 25 / / स्फटिककुट्टिमकोटितटीलुठद् - विविधनीलमणीननणीयसः / समवलोक्य हरित्तृणवाञ्छया, यदुपरि त्वरिता हरिणा न के / / 26 / / हर्षोत्कर्षवशप्ररूढरभसप्रारब्धनाट्यक्रिया- भ्रश्यनिर्मलहारमौक्तिकगणंयंपातयाञ्चक्रुषी। पौलोमी पुलकोल्लसत्तनुलता विश्वेश्वर ! त्वत्पुर - स्तस्या यत्र स एव वीजति महानन्दद्रुमोद्भूतये / / 27 / / भक्त्याविष्कृतभावभासुरनरस्वर्वासिनां सन्तते - रुद्गच्छत्पुलकप्रवर्धिततनौ चित्तेऽपि यस्यां मुहुः / स्वामिस्तेङ्ग्रिनिविष्टविस्फुटनखप्रोद्यद्रुचां मण्डलं, व्याहाराश्च मनोहराः सततमप्युयोतमातन्वते / / 28 / / इति विविधविकल्पांस्तन्वती कोविदानां, समवसरणभूमिः कस्य न स्यान्मुदे सा / जिनवर ! तव यस्याः श्रीविशेषावलोकाद, भवति तदपि नूनं स्वर्विमानं विमानम् / / 29 / / (17) रम्योऽशोकतरुः स्फुरत्परिमलाकृष्टालिमालाकुला, वृष्टिः सौमनसी सुरविरचिंता दिव्यो ध्वनिर्बन्धुरः / चञ्चच्चामरमण्डलं स्फुरदुरुश्वेतातपत्रत्रयी, भास्वद् रत्नगणाऽनणुद्युतिभरैराभासि सिंहासनम् / / 19 / / व्योमन्यब्द इवातिमन्द्रमधुरध्वानो नदन दुन्दुभि - मार्तण्डद्युतिमण्डलाभममलं भामण्डलं चाद्भुतम् / इत्येतां भुवनेषु विस्मयकरीं त्वत्प्रातिहार्यश्रियं, दृष्ट्वा कस्य जगन्नमस्य ! न भवत् प्रौढप्रमोदोदयः / / 20 / / 1. श्री भुवनसुन्दरसूरिप्रणीतं श्री जीराउलिमण्डनपार्श्वनाथस्तवनम् / पृष्ठ-१६२-६३-६४-६५ 2. मंत्राधिराज - चिन्तामणि: जैनस्तोत्रसन्दोहः - तस्य द्वितीयो विभागः - तत्र श्री भुवनसुन्दरसूरिसूत्रितं श्री शत्रुञ्जयस्तवनम् - पृष्ठ-१७१ 270 અરિહંતના અતિશયો

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294