Book Title: Anekantjaipataka Part 05
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
* पूज्यश्रीहरिभद्रसूरिस्तुतयः
** पूज्यश्रीहरिभद्रसूरिस्तुतयः
२
तिबद्धाः ! शुद्धा प्रभवति कथं साऽद्य भवतां विचारश्चार्वाकाः ! प्रचरति कथं चारु चतुरः ! । कुतर्कस्तर्कज्ञाः ! किमपि स कथं तर्कयति यः सति स्याद्वादाङ्गे प्रकटहरिभद्रोक्तवचने ॥ १॥ ग्रावग्रन्थिप्रमाथिप्रकटपटुरणत्कारवाग्भारतुष्टप्रेङ्खद्दर्पिष्टदुष्टप्रमदवशभुजास्फालनोत्तालवालाः । यद् दृष्ट्वा मुक्तवन्तः स्वयमतनुमदं वादिनो हारिभद्रं तंद् गम्भीरं प्रसन्नं न हरति हृदयं भाषितं कस्य जन्तोः ? ॥ २ ॥ यथास्थितार्हन्मतवस्तुवेदिने निराकृताशेषविपक्षवादिने । विदग्धमध्यस्थनृमूढतारये नमोऽस्तु तस्मै हरिभद्रसूरये ॥ ३ ॥ सितपटहरिभद्रग्रन्थसन्दर्भगर्भं
विदितमभयदेवं निष्कलङ्काकलङ्कम् । सुगतमतमथालङ्कारपर्यन्तमुच्चैस्त्रिविधमपि चॅ तर्कं वेत्ति यः साङ्ख्य-भट्टौ ॥४॥ श्रीमत्सङ्गमसिंहसूरिसुकवेस्तस्याङ्घ्रिसेवापरः शिष्यः श्रीजयसिंहसूरिविदुषस्त्रैलोक्यचूडामणेः । यः श्री' नागपुरं 'प्रसिद्धसुपुरस्थायी श्रुतायागतः श्लोकान् पञ्च चकार सारजडिमाऽसौ यक्षदेवो मुनिः ॥
११
11
१. 'विचारश्चार्वाकः प्रचरति' इति क- पाठः । २. शिखरिणी । ३. 'तद्गम्भीरप्रसन्नं' इति ग-पाठः । ४. स्रग्धरा । ५. वंशस्थविलम् । ६. 'भद्रं ग्रन्थ०' इति ग-पाठः । ७. ‘वत्तार्क तेत्ति यसाङ्ख्य०' इति क - पाठोऽशुद्धः । ८. मालिनी । ९. 'स्यांहिसेवा०' इति ग-पाठः । १०. 'पुरे प्रसिद्ध' इति ग-पाठः । ११. शार्दूलविक्रीडितम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350