Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 9
________________ बृहत्कल्प-छेदसूत्रम् -२-१/८ एतारक्षिताभवन्तीति । यद्येवंप्रतिपद्योपाश्रयस्यदानंकरोतिततः स्थापनीयाः ।अथाप्रतिपद्यमाने स्थापयन्ति ततश्चत्वारो गुरुकाः ।। अन्याचार्याभिप्रायेणामुमेवार्थमाह[भा.२०५९] घनकुड्डा सकवाडा, सागारियमाउ-भगिनिपेरंता। निप्पच्चवाय जोग्गा, विच्छिन्नपुरोहडा वसही। वृ. 'धनकुड्या' पक्वेष्टकादिमयमित्तिका, 'सकपाटा' कपाटोपेतद्वारा, सागारिकसत्कानां मातृमगिनीनां गृहाणि पर्यन्ते-पार्श्वतो यस्याः सा सागारिकमात-भगिनीगृहपर्यन्ता, गाथायामनुक्तोऽपिगृहशब्दोऽत्रद्रष्टव्यः, 'निष्प्रत्यपाया' दुर्जनप्रवेशादिप्रत्यपायरहिता, विस्तीर्ण पुरोहडंगृहपश्चाद्भागो यस्यां सा विस्तीर्णपुरोहडा, एवंविधा वसति संयतीनां योग्या॥ [भा.२०६०] नासने नातिदूरे, विहवापरिणयवयाण पडिवेसे। मज्झत्य-ऽवियाराणं, अकुऊहल-भावियाणंच ॥ वृ-विधवाश्च ताः परिणतवयसश्च-स्थविरस्त्रियस्तासाम् तथा मध्यस्थाना-कन्दर्पादिभाविकलानाम् अविकाराणां-गीतादिविकाररहितनाम् अकुतूहलानां-'संयत्यो भोजनादिक्रियाः कथं कुर्वन्ति?' इति कौतुकवर्जितानाम् भावितानां-साधु-साध्वीसामाचारीवासितानां सम्बन्धि यत्प्रतिवेश्म-प्रत्यासन्नगृहं तत्र नासन्ने नातिदूरे संयतीप्रतिश्रयो ग्राह्यः ।। अथान्याचार्यपरिपाट्या शय्यातरस्वरूपमाह[भा.२०६१] भोइय-महतरगादी, बहुसयणो पिल्लओ कुलीनो य। परिनतवओ अभीरू, अनभिग्गहिओ अकुतूहली ॥ वृ-यो भोगिक-महत्तरादि बहुस्वजनः बहुपाक्षिकः, तथा प्रेरकः' षिङ्गादीनांस्वगृहे प्रविशतां निवारकः, कुलीनः परिणतवयाश्चप्रतीतः, अभीरु उत्पन्नेमहत्यपि कार्येन बिभेति 'कथमेतत् कर्तव्यम् ?' इति, 'अनभिगृहीतः' आभिग्रहिकमिथ्यात्वरहितः, 'अकुतूहली' संयतीनां भोजनादिदर्शने कौतुकवर्जितः॥ [भा.२०६२] कुलपुत्त सत्तमंतो, भीयपरिस भद्दओ परिणओ । धम्मट्ठीय विनीओ, अज्ञासेन्जायरो भणिओ। वृ-यस्तु कुपुत्रकः सत्त्ववान्' न केनाप्यभिभवनीयः, भीतपर्षत् प्राग्वत्, ‘भद्रकः' शासने बहुमानवान्, परिणतो वयसामत्यावा, तथा 'धर्मार्थी धर्मश्रद्धालुः, विनीतः' विनयवान्, एष आर्यिकाणांशय्यातरो भणितस्तीर्थकरैः ।। गतं वसतिद्वारम् । अथ विचारद्वारमाह[भा.२०६३] अनावायमसंलोगा, अणावाया चेव होइ संलोगा। आवायमसंलोगा, आवाया चेव संलोगा। वृ-अनापाता असंलोका १ अनापाता संलोका २ आपाता असंलोका ३ आपाता संलोका चेति चतो विचारभूमयः। एतासुसंयतीनां विधिमाह[भा.२०६४] वीयारे बहि गुरुगा, अंतो विय तइयवञ्जितेचेव। तइए विजत्थ पुरिसा, उति वेसित्थियाओ अ॥ वृ-यदि पुरोहडे विद्यमाने संयत्यो ग्रामा बहिर्विचारभुवं गच्छन्ति ततश्चतुर्वपि स्थण्डिलेषु प्रत्येकं चतुर्गुरुकाः प्रायश्चित्तम् । अन्तरपिच' ग्रामाभ्यन्तरे पुरोहडादौ आपातासंलोकलक्षणं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 516