Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशक : १, मूलं - ८, [भा. २०६४]
तृतीयं स्थण्डिलं वर्जयित्वा यत्र पुरुषा वेश्यास्त्रियश्च 'उपयन्ति' आपतन्ति तत्र चत्वारो गुरुकाः । यत्र तु कुलजानां स्त्रीणामापातो भवति तत्र गन्तव्यम् ।। आह किं पुनः कारणं प्रथमादीनि स्थण्डिलानि तासां नानुज्ञायन्ते ? उच्यन्ते
[ भा. २०६५ ] जत्तो दुस्सीला खलु, वेसित्थि नपुंस हेट्ठ तेरिच्छा ।
७
साउ दिसा डिट्ठा, पढमा बिइया चउत्थी य ॥
वृ- " जत्तो" त्ति यस्यां दिशि 'दुःशीलाः' परदाराभिगामिनः पुरुषा आपतन्ति तथा वेश्यास्त्रियोनपुंसकाश्च "हेट्ठ"त्ति अधोनापिताः 'तिर्यञ्चश्च' वानरादय आपतन्ति 'सा तु' सा पुनः दिक् प्रथमा द्वितीया चतुर्थी च 'प्रतिक्रुष्टा' निषिद्धा, प्रथमादीनि स्थण्डिलानीत्यर्थः ॥ अथैनामेव निर्युक्तिगाथां व्याचष्टे
[भा. २०६६ ] चारभड घोड मिंठा, सोलग तरुणा य जे य दुस्सीला । उब्भामित्थी वेसिय, अपुमेसु उ इंति उ तदट्ठा ।।
वृ- 'चारभटाः' राजपुरुषाः 'घोटाः' चट्टाः 'मिण्ठाः ' गजपरिवर्त्तकाः 'सोलाः' तुरगचिन्तानियुक्ताः, एवमादयो ये तरुणाः सन्तो दुःशीलास्ते प्रथम-द्वितीययोः स्थण्डिलयोरनापातत्वादेकान्तमिति कृत्वा उद्रामकस्त्रीषु वा वेश्यासु वा “अपुमेसु उ"त्ति नपुंसकेषु वा पूर्वप्राप्तेषु 'तदर्थं ' तेषाम् उद्रामकस्त्रीप्रभृतीनां प्रतिसेवनार्थमायान्तीति । चतुर्थे स्थण्डिले संलोकत्वादेते दुःशीलादयः संयतीवर्गं पश्येयुः संयतीवर्गेण वा ते दृश्येरन्नित्यतस्तदपि निषिध्यते ॥ हेट्ठउवासणहेउं, नेगागमनम्मि गहण उड्डाहो । वानर - मयूर - हंसा, छाला सुनगादि तेरिच्छा ।।
[भा. २०६७ ]
वृ- अधस्तादुपासनम् अधोलोचकर्म तद्धेतोरधोनापितेषु पूर्वप्राप्तेषु 'अनेकेषां मनुष्याणामधोलोचकर्मकारापकाणामागमने सति यद्युदीर्णमोहास्ते संयतीर्गृह्णन्तीति ततो ग्रहणे उड्डाहो भवति । तथा वानर-मयूर-हंसाश्छगलाः शुनकादयश्च तिर्यञ्चस्तत्रायाताः संयतीमुपसर्गयेयुः ॥ यत एवं ततः किम् ? इत्यत आह
[भा. २०६८ ] जइ अंतो वाघाओ, बहिया तासि तइया अनुन्नाया । सेसा नाणुन्नाया, अजाण वियारभूमीतो ।।
वृ-यदि‘अन्तः’ग्रामाभ्यन्तरे ‘व्याघातः' पुरोहडादेरभावस्ततो बहिस्तासां 'तृतीया विचारभूमि' आपाताऽसंलोकरपाऽनुज्ञाता, तत्रापि स्त्रीणामेवापातो ग्राह्यो न पुरुषाणाम् । शेषा विचारभूमयोऽनापाताऽसंलोकाद्या आर्यिकाणां नानुज्ञाताः ॥ गतं विचारद्वारम् ।
अथ संयतीगच्छस्यानयनमिति द्वारमाह
[भा.२०६९ ] पडिलेहियं च खेत्तं, संजइवग्गस्स आणणा होइ । निक्कारणम्मि मग्गतो, कारणे समगं व पुरतो वा ।।
वृ- एवं वसति- विचारभूम्यादिविधिना प्रत्युपेक्षितं च संयतीप्रायोग्यं क्षेत्रम् । ततः संयतीवर्गस्यानयनं तत्र क्षेत्रे भवति । कथम् ? इत्याह- 'निष्कारणे' निर्भये निराबाधे वा सति साधवः पुरतः स्थिताः संयत्यस्तु 'मार्गतः' पृष्ठतः स्थिता गच्छन्ति । कारणे तु 'समकं वा' साधूनां पार्श्वतः 'पुरतो वा' साधूनामग्रतः स्थिताः संयत्यो गच्छन्ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/159ad776e5c8c71ca4ae145580adf27ad2cbc749d197294861b93d1361141896.jpg)
Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 516