Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 13
________________ १० बृहत्कल्प-छेदसूत्रम् -२-१/८ समुशिति । एवंविधं विधिं दृष्ट्वा किं भवति ? इत्याह[भा. २०७९ ] दट्टू निहुयवासं, सोयपयत्तं अलुद्धयत्तं च । इंदियदमं च चासिं, विनयं च जणो इमं भणइ ॥ वृ- 'तासां' संयतीनां 'निभृतवासं' विकथादिविरहेण निव्यापारतयैवावस्थानम्, 'शौचप्रयनं' वारकग्रहणादिरूपम्, अलुब्धत्वं च विकृत्यादिष्वभ्युत्थानाभिग्रहश्रवणेन, 'इन्द्रियदमं च' श्रोत्रादीन्द्रियनिग्रहम्, 'विनयं च ' प्रवर्तिन्यादिष्वभ्युत्थानादिरूपं दृष्टवा 'जनः' लोक इदं ब्रवीति । [भा. २०८०] सचं तवो य सीलं, अनहिक्खाओ अ एगमेगस्स । जइ बंभं जइ सोयं, एयासु परं न अन्नासु ॥ [भा.२०८१] बाहिरमलपरिछुद्धा, सीलसुगंधा तवोगुणविसुद्धा । धन्नाण कुलुप्पन्ना, एआ अवि होज्ज अम्हं पि ॥ वृ- 'सत्यं' वाक्कार्मणोरविसंवादिता, 'तपः' अनशनादि, ‘शीलं' सुस्वभावता, 'अनधिकखादश्च' विषमभोजनम् 'एकैकस्याः' परस्परममूषाम्, तथा यदि 'ब्रह्म' ब्रह्मचर्यं यदि 'शौचं ' शुचिसमाचारता, एतानि सत्यादीनि यदि परम् 'एतासु संयतीषु दृश्यन्ते 'नान्यासु' शाक्यादिपाषण्डिनीषु । ततो यद्यष्येता बाह्यमलेन परिक्षिप्तास्तथापि शीलेन सुगन्धाः तपोगुणैः - अनशनादिभिः यद्वा तपसाप्रतीतेन गुणैश्च-उपशमादिभिर्विशुद्धाः 'धन्यानां कुलोत्पन्नाः' एता येषां कुले उत्पन्नास्तेऽपि धन्या इति भावः । ‘अपि' सम्भवनायातम्, सम्भाव्यते किमयमर्थ यदस्माकमपि भगिनी - दुहित्रादय एतादृश्यः स्वकुलोज्वालनकारिण्यो भवेयुः ? | [भा. २०८२ ] एवं एत्थ वसंतीणुवसंतो सो य सिं अगारिजणो । गिण्हेति य सम्मत्तं, मिच्छत्तपरम्मुहो जाओ ।। वृ एवं तत्र वसन्तीनां तासां स अगारीजनः 'उपशान्तः' प्रतिबुद्धस्ततो मिथ्यात्वपराङ्मुखो जातः सन् सम्यक्त्वं गृह्णाति, चशब्दाद् देशविरतिं गृहवासभग्नो वा कश्चित् तद्गुणग्रामरञ्जितमनाः सर्वविरतिमपि प्रतिपद्यते ।। गतं भिक्षार्थनाविधिद्वारम् । अथ प्रत्यनीकद्वारमाहतरुणीण अभिद्दवणे, संवरितो संजतो निवारेइ । तह वि य अठायमाणे, सागारिओ तत्थुवालभइ ॥ [भा. २०८३] वृ-तरुणीनां संयतीनामभिद्रवणे प्रत्यनीकेन विधीयमाने सति 'संवृतः संयतीवेषाच्छादितः संयतो निवारयति । तथापि चातिष्ठति तस्मिन् 'सागारिकः' शय्यातरः 'तत्र' उपसर्गे तमुपालभते । एनामेव निर्युक्तिगाथां भावयति [भा.२०८४] गणिणिअकहणे गुरुगा, सा वि य न कहेइ जइ गुरूणं पि । सिद्धम्मि य ते गंतुं, अनुसट्ठी मित्तमाईहिं ॥ वृ- कश्चित्तरुणो विषयलोलुपतया संयतीनामुपद्रवं कुर्यात् ततस्तत्क्षणादेव ताभि प्रवर्त्तिन्याः कथनीयम् । यदि न कथयन्ति ततश्चत्वारो गुरवः । साऽपि च प्रवर्त्तिनी यदि गुरूणां न कथयति तदापि चतुर्गुरवः आज्ञादयश्च दोषाः, तस्मात् कथयितव्यम् । ततः 'शिष्टे' कथिते 'ते' आचार्यास्तस्याविरतकस्य पार्श्व गत्वा साध्वीशीलभङ्गस्य दारुणविपाकतासूचिकामनुशिष्टिं ददति । यद्युपरमते ततः सुन्दरम् अथ नोपरमते ततो यानि तस्य मित्राणि आदिशब्दाद् ये वा भ्रात्रादयः स्वजनास्तेषां Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 516