Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 11
________________ बृहत्कल्प-छेदसूत्रम् -२-१/८ [भा.२०७०] निप्पच्चवाय संबंधि भाविए गणहरऽपविइ-तइओ। नेइ भए पुनसत्येण सद्धिं कयकरणसहितो वा ॥ वृ. 'निष्प्रत्यपाये' उपद्रवाभावे संयतीनां ये 'सम्बन्धिनः' स्वज्ञातीयः ‘भाविताश्च' सम्यक्परिणतजिनवचना निर्विकाराः संयतास्तैः सह गणधर आत्मद्वितीय आत्मतृतीयो वा संयतीर्विवक्षितं क्षेत्र नयति । अथ स्तेनादिभयं वर्तत ततः सार्थेन सार्द्ध नयति, यो वा संयतः कृतकरणः-इषुशास्त्रेकृताभ्यासस्तेनसहितोऽसौसंयतीस्तत्रनयति।सचगणधरः स्वयंपुरतः स्थितो गच्छति, संयत्यस्तु मार्गतः स्थिताः ।।अत्रैवमतान्तरमुपन्यस्य दूषयनाह[भा.२०७१] उभयट्ठाइनिविटुं, मा पेल्ले वइणि तेणपुर एगे। तंतुन जुज्जइअविनय विरुद्ध उभयंचजयणाए। वृ-एके सूरयोब्रुवते-उभयं-कायिकी-संज्ञेतदर्थम्आदिशब्दात्परस्मिन्वाक्वचित्प्रयोजने निविष्टम्-उपविष्टं सन्तं संयतंव्रतिनीमाप्रेयतुइत्यनेनहेतुनासंयत्यः पुरतोगच्छन्ति।अत्राचार्य प्राह-'तत्तु' तदुक्तंनयुज्यते। कुतः? इत्याह-पुरतोगच्छन्तीनांतासामविनयःसाधुषुसजायते, लोकविरुद्धं चैवं परिस्फुटं भवति-अहो! महेलाप्रधानममीषां दर्शनम् । यत एवमतो मार्गतः स्थिता एव ता गच्छन्ति । 'उभयंच कायिकी-संज्ञारूपं यतनया कुर्यात् । कापुनर्यतना? इति चेद् उच्यते-यत्रैकः कायिकी संज्ञां वा व्युत्सृजति तत्र सर्वेऽपि तिष्ठन्ति । तथास्थितांच तान् दृष्ट्वा संयत्योऽपि नाग्रतः समागच्छेयुः, ता अपि पृष्ठत एव शरीरचिन्तां कुर्वन्तीति॥ गतं गच्छस्याननमिति द्वारम् । अथ वारकद्वारमाह[भा.२०७२] जहियं च अगारिजमो, चोक्खब्भूतो सुईसमायारो। कुडमुहदद्दरएणं, वारगनिक्खेवमा भणिया। वृ-'यस्मिंश्च' ग्रामादौ अगारीजनः' अविरतिकालोकचोक्षभूतःशुचिसमाचारश्चवर्तते तत्र वारकग्रहणं निर्ग्रन्थीभिः कर्त्तव्यम् । अथ न कुर्वन्ति ततश्चत्वारो गुरवः, यच्चप्रवचनोड्डाहादिकमुपजायतेतन्निष्पन्नंप्रायश्चित्तम्।यत एवमतःकुटमुखे घटकण्ठके श्लक्ष्णचीवरदर्दरकेणपिहितस्य वारकस्य स्वच्छद्रवभृतस्य निक्षेपणा मणिता भगवद्भिः॥ एनामेव नियुक्तिगाथां भावयति[भा.२०७३] थीपडिबद्धे उवस्सए, उस्सग्गपदेण संवसंतीओ। वचंति काइभूमि, मत्तगहत्था नयाऽऽयमणं॥ वृ- उत्सर्गपदेन संयतीभि स्त्रीप्रतिबद्ध उपाश्रये वस्तव्यमिति कृत्वा तत्र संवसन्त्यो यदा कायिकीभूमिं व्रजन्ति तदा मात्रकहस्ता' वारकं हस्ते गृहीत्वा व्रजन्ति, यथा तासामगारीणां प्रत्ययोजायते-एताः कायिकीं कृत्वापश्चादाचमनं करिष्यन्ति, अहो! शुचिसमाचाराइति।तत्र च गतास्तासामदर्शनीभूता आचमनंन कुर्वन्ति, सच वारकोऽन्तर्लिप्तः कर्तव्यः॥ कुतः? इत्यत आह[भा.२०७४] दुक्खं विसुयावेठ, पनगस्सयसंभवो अलित्तम्मि। संदंतेतसपाणा, आवजण तक्कणादीया। वृ-धारकोऽलिप्तः सन् “विसुयावेउँ" विशोषयितुं "दुक्खं" दुष्करो भवति ।अलिप्ते चतत्र Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 516