Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशक : १, मूलं-८, [भा. २०७४ ]
पानकभावितत्वात् पनकस्य 'सम्भवः' सम्मूर्च्छनं भवति । अलिप्तश्च वारकः पानके प्रक्षिप्ते सति स्यन्दत-परिगलति । यन्दमानेच 'त्रसप्राणिनः' कीटिका-मक्षिकादयः समागच्छेयुः । ततः किम्? इत्यत आह- “आवज्जण "त्ति यदनन्तकायिक- विकलेन्द्रियेषु सङ्घट्टनादिकमापद्यते तन्निष्पन्नं प्रायश्चित्तम्। “तक्कणाईय'त्ति ततो वारकात् पानके परिगलति मक्षिकाः पतन्ति, तासां ग्रसनार्थं गृहकोकिला धावति तस्या अपि भक्षणार्थं मार्जारीत्येवं तर्कणम्-अन्योन्यं प्रार्थनं तदादयो दोषा भवेयुः ॥ यत्र पुनः कायिकीभूमौ सागारिकं भवति तत्रेयं यतनासागारिए परम्मुह, दगसद्दमसंफुसंतिओ नित्तं । पुलएज माय तरुणी, ता अच्छ दवं तु जा दिवसो ॥
[भा. २०७५ ]
९
वृ- सागारिके सति पराङ्मुखीभूय कायिकीं कृत्वा 'नेत्रं' भगमसंस्पृशन्त्यः 'दकशब्द' पानकप्रक्षालनानुमापकं कुर्वन्ति । तथा 'तरुण्यः' स्त्रियः 'किमत्रास्ति पानकं न वा ?' इति जिज्ञासया मा प्रलोकन्तामिति हेतोस्तस्मिन् वारके तावद् ' अच्छम्' अकलुषं 'द्रवं' पानकं प्रक्षिप्तं तिष्ठति यावद् दिवसः, ततः सन्ध्यासमये तत् पानकं परिष्ठापयन्ति ॥
गतं वारकद्वारम् । अथ भक्तार्थनाविधिद्वारमाह
[भा. २०७६ ] मंडलिठाणस्सऽसती, वला व तरुणीसु अहिवडंतीसु । पत्तेय कमढभुंजण, मंडलिथेरी उ परिवेसे ॥
- यद्यसागारिकं ततो मण्डल्यां समुद्दिशन्ति । अथ मण्डलीभूमि सागारिकबहुला ततो मण्डलिस्थानस्यासति बलाद् वा प्रणयेन तरुणीष्वभिपतन्तीषु तत्रौर्णिकं कल्पमधः प्रस्तीर्य तस्योपरि सौत्रिकं तत्राप्यलाबुपात्रकाणि स्थापयित्वा प्रत्येकं कमढकेषु भुञ्जते । प्रवर्त्तिनी च पूर्वाभिमुखा धुरिनिविशते । तत एका मण्डलिस्थविरा यमलजननीसहोदरा सर्वासामपि परिवेषयेत्, आत्मनोऽपि योग्यमात्मीये कमढके प्रक्षिपेत् ॥
[भा. २०७७] ओगाहिमाइविगई, समभाग करेइ जत्तिया समणी । तासिं पञ्चयउं, अणहिक्खट्ठा अकलहो अ ।।
बृ- अवगाहिमं पक्वानम् आदिशब्दाद् घृतादिकाश्च विकृतीः यावत्यः श्रमण्यस्तावतः समभागान् मण्डलिस्थविरा करोति । किमर्थम् ? इत्याह- 'तासां' श्रमणीनां प्रत्ययार्थम्, था “अणहिक्खट्ठ”त्ति 'अनधिकखादनार्थं सर्वासामप्यविषमसमुद्देशनार्थम्, अकलहश्चैवं भवति, असङ्घडं न भवतीत्यर्थः ॥ ताश्च समुद्देष्टुमुपविशन्त्य इत्थं ब्रुवते
[भा.२०७८ ] निव्वीइय एवइया, व विगइओ लंबणा व एवइया । अन्नगिलायंबिलिया, अज्ज अहं देह अन्नासिं ॥
वृ- एका ब्रूते - अद्याहं निर्विकृतिका । द्वितीया प्राह- अद्य मम 'एतावत्यः' एक - द्व्यादिसङ्ख्याका विकृतयो मुत्कलाः शेषाणां प्रत्याख्यानम् । अपरा भणति-अद्य ममैतावन्तः 'लम्बनाः' कवलाः तत ऊर्ध्वं नियमः । अन्याऽभिधत्ते - अद्याहम् 'अन्नग्लाना' ग्लानं पर्युषितमन्नं मया भोक्तव्यमित्येवं प्रतिपन्नाभिग्रहा । तदपरा ब्रूते - अद्याहम् ' आचाम्लिका' कताचाम्लप्रत्याख्याना अत इदं विकृत्यादिकमन्यासां प्रयच्छत । एवं समुद्दिश्य स्वच्छपानकेनाचमनं कुर्वन्ति । प्रवर्त्तिन्याः कमढकं क्षुल्लिका निर्लेपयति, शेषास्तु स्वं स्वं कमढकम् । ततः सर्वास्वपि समुद्दिष्टासु मण्डलीस्थविरा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 516