Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta Author(s): Yashovijay Upadhyay, Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 5
________________ 30050005 श्रीमद्वाचकेन्द्राय नमः अध्यात्ममतपरीक्षोपक्रमः 488 समाकर्णितपूर्वमेतद्विपश्चितां यदुत श्रीमदकलङ्कज्ञानकलितजिनेन्द्रपादप्रणीते जन्तुजातहितावहे पौर्वापर्यविरोधकलङ्कविकलेऽपि च जैनेन्द्रशासने विहायस इव दिनरात्रिभ्यां श्रीश्रमणसङ्घस्य जातो द्वैधीभावः श्वेताम्बर दिगम्बराभ्यां द्वयेऽपि च वावद्यन्त एव अहम महमिकया सर्वज्ञानुगतिकतां खेषामन्येषां तु संसारापारपारावारपरिभ्रमणनिबन्धनमाचख्युर्निन्हवतां, केचिन्नवीन वर्मोद्भव भावनाभावि - तास्तु तृतीयप्रकृतिका इवोभयायोभयानुसारिनरार्हणालोभान्धा द्वयेषामुत्सर्गापवादानुगतां दिगम्बर श्वेताम्बराणां प्राचख्युः कल्पितामश्रद्धाननिबन्धने सत्यप्यदृद्वैव तद्, आख्यान्ति च त्रयोऽपि यथाखमाध्यात्मिकतां स्वयं स्वयं, कतमश्चैषां श्रीमदाप्तमार्गानुसारी यथार्थतयाध्यात्मिकश्च समुदाय इति यद्यपि साक्षात्साक्षात्कारिज्ञान विकलेऽस्मिन् किल काले दुरवसेयं यथावत् तथापि यावत्तीर्थं श्रुतधर्मस्य श्रीमदाराध्यतमपादोपदिष्टस्यानुवर्त्तनात्सर्वज्ञोदितेरिव स्यादेव न ततो निर्णयः किमुच्येत च युक्तयन्विते तु तस्मिन् सति तन्न भवति, तन्नानाश्वासः कुत्राप्यागमगदिते पारगतानुमते तत्त्वे, भविष्यति चैवमपि आसन्न भव्यानां यथार्थतया तत्त्वार्थाधिगमः श्रद्धानादि चाश्रवादीनां परेषां तु Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 240