Book Title: Aagam 03 STHAN Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [-], मूलं [-] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
द्रव्यं-सचित्ताचित्तमिनभेदं स्थानं गुणपर्यायाश्रयत्वात् , ततः कर्मधारय इति, तथा क्षेत्रम्-आकाशं, तञ्च तत् स्थान च द्रव्याणामाश्रयत्वात् क्षेत्रस्थानं, तथा अद्धा-कालः, स च स्थान, यतो भवस्थितिः कायस्थितिश्च भवकालः कायकालश्चाभिधीयते, स्थितिश्च स्थानमेवेति, 'उह'त्ति ऊर्ध्वतया स्थानम्-अवस्थानं पुरुषस्य ऊवस्थानं-कायोत्सर्ग इति, इह स्थानशब्दः क्रियावचनः, एवं निषदनत्वग्वर्तनादिस्थानमपि द्रष्टव्यम्, ऊर्ध्वशब्दस्योपलक्षणत्वादिति, तथा उपरतिः-विरतिः सैव स्थानं विविधगुणानामाश्रयत्वात् , विशेषार्थों वेह स्थानशब्दः, ततो विरतेः स्थान-विशेषो विरतिस्थानं, तच्च देशविरतिः सर्वविरतिति, तथा वसतिः स्थानमुच्यते, स्थीयते तस्मिन्नितिकृत्वेति, तथा संयमस्य स्थान संयमस्थानम् , इह स्थानशब्दो भेदार्थः, संयमस्य शुद्धिप्रकर्षापकर्षकृतो विशेषः संयमस्थानं, तथा प्रगृह्यते-उपादी-1 यते आदेयवचनत्वाधः स प्रग्रहो-ग्राह्यवाक्यो नायक इत्यर्थः, स च लौकिको लोकोत्तरश्चेति, तत्र लौकिको राजयुवराजमहत्तरामात्यकुमाररूपो, लोकोत्तरश्वाचार्योपाध्यायप्रवर्तकस्थविरगणावच्छेदकरूप इति, तस्य स्थान-पदं प्रग्रहस्थानमिति, तथा योधानां स्थानम्-आलीढप्रत्यालीढवैशाखमण्डलसमपादरूपं शरीरन्यासविशेषात्मकं योधस्थान, तथा 'अचल'त्ति अचलतालक्षणो धर्मः सादिसपर्यवसितादिरूपः स्थानमचलतास्थानं, तथा 'गणण'त्ति गणनाविषयं । स्थानमेकब्यादिशीपहेलिकापर्यन्तं गणनास्थानं, तथा सन्धानं द्रव्यतश्छिन्नस्य कशुकादेरच्छिन्नस्य तु पक्ष्मोत्सद्यमानतन्वादेरिति, भावतस्तु छिन्नस्य प्रशस्ताप्रशस्तभावस्य पुनः सन्धानमच्छिन्नस्य त्वपरापरोत्पद्यमानस्य प्रशस्ताप्रशस्तभावस्य सन्धानं तदेव स्थान-वस्तुनः संहतत्वेनावस्थानं सन्धानस्थानं, 'भावे'त्ति भावानाम्-औदयिकादीनां स्थानम्-अवस्थि
'स्थान' एवं 'अंग' पदस्य निरुपणं,
~8~
Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 1059