Book Title: Yugadi Vandana
Author(s): Dharnendrasagar
Publisher: Buddhisagarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 112
________________ Shri Mahavir Jain Aradhana Kendra १.०१ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्दश स्वप्न स्तुति गर्भितं श्री ऋषमजिनेन्द्र स्तोत्रम् ( उपजातिवृत्तम् ) युगादिना यदङ्गजोऽयं क्रमतश्चतुर्दशोल्लसद् गुणस्थानरसोपभोगभाक् । प्राप्स्यत्यनन्तोदय ! संपदं सतां दत्त्वा परेषाममृतं स्वयं ततः ||१॥ यस्यावतारे जननी जहर्ष किं चतुर्दशस्वप्नगुणेक्षणादिति । परोपकारप्रकृतिं तमादिमं सार्वं सदानन्दपदाय संस्तुवे ||२|| क्षमाक्षमात्मा शिवदर्शनास्पदं सर्वं सहः शस्यरमाकरोदयः । सुस्कन्धतोपार्जित सौख्यविस्तृतिः स्निग्धच्छविश्चारुपदप्रयोगगः ||३|| स्वप्नागतो गौरव भाव्यही गुणैः सुतोऽस्मदीयोऽयमितीव सञ्ज्ञया । पित्रादिभिर्यो वृषभः प्रतिष्ठितः प्रष्ठः प्रभुः सोऽस्तु विभूतये भुवि ||४|| वृषभः ॥ सदुच्चतोच्चः सुकरस्थविस्तरः स्फुरद्गतिर्दुर्द्धरवैरिचारकः । मुक्ताकरश्रीस्थितिगः सदा जयी भावी गुण स्वः प्रमदी करीव यः ॥५॥ इतीव यद्गर्भभवे सितं द्विपं स्वप्ने विशन्तं मुदिता ददर्श किम् । स्कार प्रसूर्विष्टपपावनाय स श्रीआदिदेवः शिवसम्पदेऽस्तु वः || ६ || गजः ॥ महौजसाऽनेकपराजिदुम्र्म्मदं भिन्दन्नमन्दां नखविक्रियां दधत् । सदाऽवनीशः शिवदर्शनः स्फुर-जयी सुतस्यानुकृति कियद्गुणैः ॥ ७॥ कर्त्ताऽस्म्यहं तेऽम्ब ! गुणार्णवस्य तत्संसूचनायेव किमागतो हरिः । यस्यावतारे जननी सुसंलये स्वप्नस्थितौ तं सततं स्तुवे जिनम् ||८|| सिंहः ॥ अप्रत्नरत्नत्रितयेन्दिरादरी सत्प्रातिहार्यातिशयातिशायि सः । चतुस्ततानन्तरमारतीरतः श्रेयः श्रियां या भविताङ्गि शम्पदम् ॥९॥ For Private And Personal Use Only लक्ष्मेत्यदादीवमुखाजवेशन - व्याजाज्जनन्याः सुतभाविभाविना । स्वप्नस्थित सुस्थितिभावसम्भवा-वनी स वोऽव्यात् परमेष्ठिपुङ्गवः ||१०|| लक्ष्मीः ॥

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149