Book Title: Yugadi Vandana
Author(s): Dharnendrasagar
Publisher: Buddhisagarsuri Jain Gyanmandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११९
॥ श्रीसिद्धाचलमण्डन श्रीयुगादि जिनस्तबनम् ॥
____ (शार्दूलविक्रीडितवृत्तम् ) श्रेयः श्रीसदनं प्रशान्तवदनं संसारविच्छेदन, मोहद्रोहिनिकन्दनं भवभृतां नित्यं सुखोत्पादनम् । पुण्यस्वर्दुमनन्दनं विमदनं दौर्गत्यनिर्भेदनं, श्रीशत्रुञ्जयमण्डनं सदवनं नाभेयमीडे जिनम् ॥१॥ श्रेयः कर्तरि हर्तरि द्रुतमद्यं शोभामलं धर्त्तरि, पुण्यं भर्तरि भेत्तरीह भविनां दौस्थ्यं भवं छत्तरि । मोक्षं दातरि शं विधातरि गुणग्रामं च निर्मातरि, श्रीनाभेयजिनक्रमाम्बुजयुगे भूयान्मुदा मे नुतिः ॥२॥ सम्यक्त्वं रचयन् सुखं किसलयन् संसारमुच्छेदयन् , दौर्गत्यं दलयन्नघं विघटयन् मिथ्यात्वमुन्मर्दयन् । पुण्यं पल्लवयन मुदं प्रकटयन् मोक्षश्रियं सूत्रयन् , श्रीशत्रुञ्जयमण्डन विजयतेऽर्हन् नाभिभूपालम् ॥३॥ यत्सेवा द्विसदमगौर्भवभतां चिन्तातिगां समनि, श्रेयः श्रेणिमहर्निशं वितनुते दूरीकरोत्यापदः श्रीमन्नाभिनरेन्द्र वंशकमलालङ्कार चूडामणिं, तं शत्रुञ्जयमण्डनं जिनपति स्तौम्यादिमं सादरम् ॥४॥ श्रेयस्तं श्रयते यशश्च यतते तं नित्यमासेवितुं, बुद्धिस्तं भजते सदा सुमनसं सौख्ययं समालिङ्गति । दौर्भाग्यं न निरीक्षते तमनिशं नो दौस्थ्यमालोकते, यः सिद्धाचलतीर्थपं प्रणमति श्रीमारुदेवं जिनम् ॥५॥ श्रेयः कामगवीं स दोग्धि विगलत्पापप्रपञ्चः सुधीः, स्फुर्जत्केवलमालिनं च सततं तं वष्टि मोक्षेन्दिरा । नौति स्तौति च तं सुरासुरनरश्रेणि सुभत्याऽनिशं, यः सिद्धाचलनायकं प्रगमति श्रीनाभिभूपाङ्गजम् ॥६॥
For Private And Personal Use Only

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149