Book Title: Yugadi Vandana
Author(s): Dharnendrasagar
Publisher: Buddhisagarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 138
________________ Shri Mahavir Jain Aradhana Kendra १३० www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युगादि। दुःखं तं विजहाति मुक्तिललना धन्ते च तं चेतसि, सङ्गं तस्य बिभर्त्ति बुद्धिरमला नित्यं समानन्दिता । तस्माद् दुष्टमघं बिभेति तमहो तोतूर्त्ति शं सेवितुं, यः सिद्धांचलमण्डनं जिनपति श्रीनामिजं सेवते ||७|| पापं नश्यति तस्य शुष्यतितमां संसारवारांनिधिमहः शाम्यति तस्य शुद्धमनासोऽभीष्टं च संसिद्ध्यति । तस्य भ्रस्पति दुःखसन्ततिररं चेतश्च संशुद्ध्यति, यः स्तौ प्रथमं जिनेशमनिशं श्रीसिद्धशैलेश्वरम् ||८|| सदर्भ चिनुते दुनोति च दरं पापं पिनष्टि द्रुतं दौर्भाग्यं च रुणद्धि कर्मपटलं भिन्ते तनोति श्रियम् । पुष्णातीतदरं सुखं तु विमला यस्यार्चना देहिनां तं सिद्धाचलनायकं जिनपति श्रीमारुदेवं श्रये ॥ ९ ॥ यत्सेवा दुरितं प्रणाशयति च श्रेयांसि विस्तारयत्यस्यैः प्राणभृतां समर्पयति च त्रैलोक्यलोकानाम् । यद्धाग् मोक्षपथं दिशत्यसुमतां दुःखोच्च वृ तं सिद्धाचलशृङ्गमण्डनमरं नाभेयमीडे जिनम् ॥१०॥ भृत्यन्ति सदो द्विषत् स्वजनति प्राणस्प्रशामन्वहं यत्पादार्च (नभा) स्नजत्यहि रहो गेहायते काननम् । काम्यन्तेऽनिशमङ्गिनः सुमनसो यत्सेवका मुक्तिना तं सिद्धाचलतीर्थं प्रणमत श्रीमारुदेवं जिनम् ||११|| For Private And Personal Use Only चर्कतं सदां गणः प्रतिपदं यत्सेवनां सादरं जेगीयन्त इह प्रमाणपटवः कीर्ति च यस्याऽमलाम् । नित्यं मेऽपि मनचिकीर्षतितरां यस्माऽर्हतो दर्शनं तं सिद्धाचलमण्डनं भजत भो ? भक्त्या वृषाङ्कजिनम् ||१२|| अमरविजयपादाम्भोजभृङ्गादमानश्चतुरबिजय इत्थं मारुदेवं जिनेन्द्रम् । बिमलशिखरिनाथं तुष्टुवेऽश्वर्षिनन्दशशिश रदिश्वमाघश्यामपक्षेचतुर्थ्याम् ॥ १३ ॥

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149