Book Title: Yugadi Vandana
Author(s): Dharnendrasagar
Publisher: Buddhisagarsuri Jain Gyanmandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०८
কুমিল।
सन्धि कारयितुं यदीयवचसा पीयूषयूषस्यकि ?
माधुर्येण निराकृतस्य भयतः पातालमासे दुषः । तत्कुण्डाधिकृता फणाभूत इमे प्राप्ता जटाकैतवात्,
कर्णाभ्यर्णमसौ स सौख्यमखिलं देयाद्युगादीश्वरः ॥५।। श्रीमद्विभुर्भुवनानि भासुरतरैस्तेजोमिराभासयन् ,
श्रीनाभेः कुलदीप उत्तमगुणस्थानैकपात्रे स्थितः । दग्धानङ्गपतङ्ग उज्ज्वलदिशासङ्गः सुरङ्गज्जदाप्रोन्नीद्राञ्जनरेख एष ऋषभस्तत्त्वप्रकाशी द्रवः ।।६।।
( स्रग्धरावृत्तम् )
स्वामिन् ! मां निष्कलङ्कां परिहरसि किमु स्नेहलां कर्तृमेव ?
विज्ञप्तिं राज्यलक्ष्म्याऽनुनयनिपुगया दूतिके प्रेषिते किम् । दीक्षायां यस्यशस्यश्रुतितटजटयोः कैतवा नदम्भात
स श्रीनाभेयदेवः प्रथयतु भवतां संह तीरीहितानाम ।।७।।
(शार्दूलविक्रीडितम् )
यद्वक्त्रेण जिता पयोजपटली नंष्ट्वाऽम्बुदुर्ग श्रिता,
तत्रापि व्यथिता मरालविहगैः कीर्तेः सुहृदिस्ततः । तन्मा...ऽम्बुजिनीव संधिविधये यत्पृष्टिलग्नाऽभ्रमत्,
प्रेङ्घत्कुन्तलमालिकाकपटतः सोऽस्तु श्रिये नाभिभूः ॥८॥ स्वामिस्त्वन्मुखमत्सरान्मम पतिर्जातः कलङ्की ततः,
कारुण्यैकनिधे ! प्रसीद न पुनः सेो भविष्यत्यसौ। कर्णाभ्यर्णमिवाययाविति तमी विज्ञप्सुरिन्दुप्रिया
व्याजात् स्कन्धजटावलेः स भवतां श्रीआदिदेवः श्रिये ॥९॥
For Private And Personal Use Only

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149