Book Title: Yogshastram Author(s): Hemchandracharya, Publisher: Jain Dharm Prasarak Sabha View full book textPage 6
________________ योगशास्त्रम् ॥ ३ ॥ Jain Education Intern 108-08-10→ - 1)+*306 सिद्धसूरिमन्त्राः कलिकालसर्वज्ञबिरुद्धारकाचेमेऽध्यात्मरसास्वादमग्नास्तथा बभूवुर्यथाऽऽधुनिका विद्वांसोऽपि तद्दर्शितपथं ज्ञातुमप्यसमर्था इत्येतद्ग्रन्थविलोकने स्पष्टं ज्ञायते, ईदृग्विद्योपदेशकगुरुवर्गाभावेन च शोचनीयं विद्वद्भिरित्यपि । तथापि “ यथाशक्ति शुभे यतनीयम् ” इतिन्यायादस्य शास्त्रस्य पठनपाठनादिविषय आत्महितेप्सुभिरत्यादरः कर्तव्यः, येनास्य संस्कारो जन्मान्तरेऽपि श्रेयःसाधनतामधिगच्छेत् । शास्त्रकर्त्राऽस्मिन् प्रन्थे द्वादश प्रकाशाः प्रकाशिताः । तत्राद्ये प्रकाशचतुष्के सविस्तृता टीका स्वेनैव कृताऽस्ति, प्रासङ्गिककथानकान्यपि नातिविस्तृतानि आगमानुसारीणि दर्शितानि यथास्थाने । उपरितनप्रकाशाष्टकेऽतीव संक्षिप्ता वृत्तिरपि स्वेनैव रचितास्ति | तत्र प्रथमे प्रकाशे - मङ्गलपूर्वकं स्तुतिगर्भितमहावीरचरितं योगस्य स्वरूपं फलं माहात्म्यं च सदृष्टान्तम्, सम्यगृज्ञानदर्शनचारित्रस्वरूपं, सर्वविरतीनां मूलोत्तरगुणस्वरूपं, मार्गानुसारिश्रावकस्वरूपं च विस्तरेण कथितम् ।। १ । द्वितीये प्रकाशे – सम्यक्त्वमिध्यात्वयोः स्वरूपं पश्चाणुव्रतस्वरूपं च सविस्तरं प्रासङ्गिककथासहितं दर्शितम् ॥ २ ॥ च तृतीये प्रकाशे - त्रयाणां गुणव्रतानां चतुर्णां शिक्षाव्रतानां च स्वरूपं तत्र भोगोपभोगत्रते भक्ष्याभक्ष्यादिस्वरूपं सयुक्तिकं सशाखं च दर्शितम् । तथा द्वादशानां व्रतानामतिचाराः, तत्रापि भोगोपभोगत्रतातिचारप्रसङ्गे पञ्चदशकर्मादानस्वरूपम्, महाश्रावकत्वस्वरूपं, सप्तक्षेत्रस्वरूपं, श्रावकदिनचर्यादिस्वरूपं, ईर्यापथिकी-नमुत्थुणं - अरिहंतचेइयाणंप्रमु For Personal & Private Use Only प्रस्तावना । ॥ ३ ॥ www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 786