Book Title: Yogshastram
Author(s): Hemchandracharya, 
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 5
________________ स्वारमणीरमणा जाताः, तथा हि "शरवेदेश्वरे ११४५ वर्षे कार्तिक पूर्णिमानिशि । जन्माभवत्प्रभोर्योमबाणशंभौ ११५० व्रतं तथा ॥ ८४८॥ रसपश्वर ११६६ सूरिप्रतिष्ठा समजायत । नन्दद्वयरवौ वर्षे १२२६ बसानमभवत प्रभोः ॥ ८४६ ॥" __इति सर्व प्रभावकचरितादवसीयते । स्वपरसर्वशास्त्रनदीष्णातैरेभिः प्रभुभिः अनेकार्थकोषा-नेकार्थशेषा-भिधानाचन्तामणि-अलङ्कारचूडामणि-उणादिसूत्रवृत्ति-काव्यानुशासन-छन्दोऽनुशासनवृत्ति-सटीकदेशीयनाममाला-सटीकद्वथाश्रयकाव्य-सटीकधातुपाठ-सटीकधातुपारायण-धातुमाला-नाममालाशेष-निघण्टुशेष-सटीकप्रमाणमीमांसा-बलाबलसूत्रबृहद्वृत्ति-बालभाषाव्याकरणसूत्रवृत्ति-विभ्रमसूत्र-सटीकलिङ्गानुशासन-सटीकशब्दानुशासन--शेषसङ्ग्रह-शेषसङ्ग्रहसारोद्वार-त्रिषष्टिशलाकापुरुषचरित्र-परिशिष्टपर्व-नाभेयनेमिद्विसन्धानमहाकाव्य-अहन्नीति-अन्ययोगव्यवच्छेदद्वात्रिंशिकाअयोगव्यवच्छेदद्वात्रिंशिका-वीतरागस्तोत्राद्यनेकग्रन्थाः काव्यालङ्कारकोषव्याकरणतर्काध्यात्मदर्शनसंबन्धिनानाविषया निबद्धाः प्रसिद्धा अप्रसिद्धाश्च दृश्यन्ते । इदं च योगशास्रस्यास्य रचने ऐतिचं-किलैकदा भुञ्जानस्य श्रीकुमारपालनृपतेर्भोज्यवस्तुसादृश्येन धर्मप्राप्तः पूर्व भुक्तस्य मांसस्य स्मरणे खिन्नस्य प्रायश्चित्तपदेऽस्य शास्त्रस्य द्वादश प्रकाशा वीतरागस्तवस्य विंशतिः प्रकाशाश्च द्वात्रिंशद्दन्तशुद्धिकृते समर्पिताः, तांश्च राजा प्रत्यहं गुणयामास । अपि चास्य शास्त्रस्य प्रान्ते “ श्रीचौलुक्यकुमारपालनृपतेरत्यर्थमभ्यर्थना-दाचार्येण निवेशिता पथि गिरां श्रीहेमचन्द्रेण सा ॥” इति स्पष्टाक्षरेण रचनाहेतुः प्रकटितः प्राप्तसाक्षात्सरस्वतीप्रसादैरेभिः। sain Education interna For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 786