Book Title: Yogshastram Author(s): Hemchandracharya, Publisher: Jain Dharm Prasarak Sabha View full book textPage 3
________________ ॥ प्रस्तावना॥ अवधारयन्तु धारणानिपुणा भव्याः । इह किल जन्मजराव्याधिमरणादिदुःखबहुले चातुर्गतिकसंसारे परिभ्रमन्तः सर्वे जीवाः सुखाभिलाषिण एव । तच्च सर्वकर्मक्षयेणानन्तचतुष्टयप्राप्तावेव लभ्यतेऽनैकान्तिकमव्याबाधं च । तत्प्राप्तिश्च जीवात्मनः परमात्मतादशायामेव । तल्लाभे च कारणतया चत्वार एवानुयोगा अनुयुक्तास्तीर्थकरादिभिराप्तैः-कथानुयोगो गणितानुयोगो द्रव्यानुयोगश्चरणकरणानुयोगश्चेति । तत्रापि चरणकरणानुयोगोऽनान्तरीयकं कारणं स्पष्टमेव " ज्ञानदर्शनचारित्राणि मोक्षमार्गः" "ज्ञानक्रियाभ्यां मोक्षः" इत्यादिवचनप्रामाण्यादनुयोगस्यास्य तद्विषयकत्वात् , अन्येषामनुयोगानामेतदर्थत्वाच्च । अत्र चानुयोगे बहूनि शास्त्राण्यागमात्समुध्धृत्य रचितानि रचनाचतुरैराचार्यवर्यैः स्वपरोपकारकरणैककर्मठैः तत्तद्विषयविशेषपोषकाणि, न हि विना प्रपञ्चप्रपश्चनेनानादिमिथ्यात्वकुवासनावासितान्त:करणा ऐदंयुगीना जीवा अल्पमेधासत्त्वायुष्मन्तः संक्षिप्तगभीरार्थागमवचनमात्रेण शक्या बोधयितुं सुबुद्धेनापीति । तत्रेदं शास्त्रं चरणकरणानुयोगेऽवतरति योगशास्त्रं योगस्य शास्त्रमिति कृत्वा । किंस्वरूपो योगः ? इत्यपेक्षायाम् " चतुर्वर्गेऽग्रणीर्मोक्षो, योगस्तस्य च कारणम् । ज्ञानश्रद्धानचारित्ररूपं रत्नत्रयं च सः ॥ १५ ॥ इति प्रथमप्रकाश एव ग्रन्थप्रथितृभी रत्नत्रयस्वरूपो योगो मुख्यतया विवक्षितः । “ योगश्चित्तवृत्तिनिरोधः" इति Latin Education internation For Personal & Private Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 786