Book Title: Yogshastra Part 01
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
१५७
अनभिनिविष्टत्त्वं च कादाचित्कं शाठ्यात्रीचानामपि सम्भव
त्यत आह । सदेति ॥ २० ॥
तथा गुणेषु सौजन्यौदार्य दाचिण्य स्थैर्य प्रियपूर्व प्रथमाभिभाषगणादिषु स्वपरयोरुपकारकारणेष्वात्मधर्मेषु पक्षपाती । पक्षपातखु बहुमानतप्रशंसा साहाय्यकरणादिना अनुकूला प्रवृत्तिः । गुणपक्षपातिनो हि जीवा प्रवन्ध्यपुण्यबोजनिषेके मेहामुत्र च गुणग्रामसम्पदमारोहन्ति ॥ २१ ॥
तथा प्रतिषिद्धो देशोऽदेशः प्रतिषिद्धः कालोऽकालः तयोरदेशाकालयोश्चर्या चरणं तां त्यजन् परिहरन् प्रदेशकालचारी हि चौरादिभ्योऽवश्यमुपद्रवमाप्नोति ॥ २२ ॥
तथा जानन् विदन् बलं शक्तिं स्वस्य परस्य वा द्रव्यक्षेत्रकालभावकृतं सामर्थ्यम् । अबलमपि तथैव बलाबलपरिज्ञाने हि सर्वः सफल आरम्भः अन्यथा तु विपर्ययः ।
प्रथमः प्रकाशः ।
यदाह -
स्थाने शमवतां शक्त्या व्यायामे वृद्धिरङ्गिनाम् । अयथाबलमारम्भो निदानं चयसम्पदः ॥ १ ॥ इति ॥ २३ ॥
तथा वृत्तमनाचारपरिहारः सम्यगाचारपरिपालनं च । तव तिष्ठन्तीति वृत्तस्था: । ज्ञानं हेयोपादेय वस्तु विनिश्चयस्तेन वृडा महान्तः । वृत्तस्थाश्च ते ज्ञानवृद्धाश्च तेषां पूजकः । पूजा च सेवाजल्यास नाभ्युत्थानादिलक्षणा | वृत्तस्थज्ञानवन्तो हि पूज्यमाना
नियमात्कल्पतरव इव सदुपदेशादिफलैः फलन्ति ॥ २४ ॥
Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202