Book Title: Yogshastra Part 01
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
यदाह
प्रथमः प्रकाशः ।
लज्जां गुणौघजननीं जननीमिवार्यामत्यन्तशुद्धहृदयामनुवर्त्तमानाः ।
तेजखिनः सुखमसूनपि सन्त्यजन्ति
१५८
सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥ १ ॥ ३० ॥
तथा सह दयया दुःखितजन्तु दुःखत्राणाभिलाषेण वर्त्तत इति सदयः । धर्मस्य दया मूलमिति ह्यामनन्ति । तदवश्यं दयां
कुर्वीत ।
यदाह
• प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा ।
आत्मौपम्येन भूतानां दयां कुर्वीत मानव ॥ १ ॥ ३१ ॥
तथा सौम्योऽक्रूराकारः क्रूरो हि लोकस्योद्देगकारणम् ॥३२॥ तथा परोपकृतौ परोपकारे कर्मठः कम्मैशूरः कमाणि घटते "तत्र घटते कर्म्मणष्ठ: " ॥ ७ । १ । १३७ ॥ इति ठः परोपकारपरो हि पुमान् सर्वस्य नेत्रामृताञ्जनम् ॥ ३३ ॥
तथा अन्तरङ्गश्वासावरिषड्वर्गश्चान्तरङ्गारिषड्वर्ग स्तस्य परिहारोऽनासेवनं तत्र परायणस्तत्परः । तत्रायुक्तितः प्रयुक्ताः कामक्रोधलोभमानमदहर्षाः शिष्टग्टहस्थानामन्तरङ्गोऽरिषड्वर्गः । तत्त्र परपरिग्टहोताखनूढासु वा स्त्रीषु दुरभिसन्धिः कामः । परस्यात्मनो वा अपायमविचार्य कोपकरणं क्रोधः । दानार्हेषु स्वधनाप्रदानं निष्कारणं परधनग्रहणं च लोभः । दुरभिनिवेशारोही युक्तोक्ता
Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202