Book Title: Yogshastra Part 01
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
१८०
योगशास्त्र
यदाह
'रागी देवो दोसी देवो मामि सुन्नपि देवो मज्जे धम्मो मंसे धम्मो जीवहिंसाइ धम्मो । रत्ता मत्ता कन्तासत्ता जे गुरू तेवि पुज्जा
हाहा कहुं नहो लोओ अट्टम कुणंतो ॥ १ ॥ तदेवमदेवागुर्वधर्मपरिहारण देवगुरुधर्मप्रतिपत्तिलक्षणं सम्यक्त्वं सुव्यवस्थितम् । तच्च शुभात्मपरिणामरूपमस्मदादीनामप्रत्यक्ष केवलं लिङ्गैलक्ष्यते ॥ १४ ॥
तान्येवाह-- शमसंवेगनिर्वेदानुकम्पास्तिक्यलक्षणैः । .. लक्षणैः पञ्चभिः सम्यक् सम्यक्तमुपलक्ष्यते ॥१५॥
पञ्चभिलक्षणैर्लिङ्गैः परस्थं परोक्षमपि सम्यक्त्वं सम्यगुपलक्ष्यते । लिङ्गानि तु शमसंवेगनिर्वेदानुकम्पास्तिक्यस्वरूपाणि । शमः प्रशमः क्रूराणामनन्तानुबन्धिनां कषायाणामनुदयः । स च प्रकृत्या वा कषायपरिणते: कटुफलावलोकनाद्दा भवति ।
(१) रागी देवो दोषी देवो सखे शून्योऽपि देवः
मद्ये धर्मो मांसे धर्मः जीवहिंसायां धर्मः । रक्ता मत्ताः कान्तासना ये गुरवः तेऽपि पूज्याः हाहा कष्टं नष्टो लोको अट्टमट्ट कुर्वन् ॥
Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202