Book Title: Yogshastra Part 01
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
द्वितीयः प्रकाशः।
१८१
सम्यवामूलानि पञ्चाणुव्रतानीत्युक्तं तत्र सम्यक्त्व
मभिहितमिदानीमणव्रतान्याहविरतिं स्थूल हिंसादेईिविधविविधादिना । अहिंसादीनि पञ्चाणुव्रतानि जगदुर्जिनाः ॥१८॥
स्थूला मिथ्यादृष्टीनामपि हिंसात्वेन प्रसिद्धा या हिंसा सा स्थूलहिंसा स्थूलानां वा त्रसानां जीवानां हिंसा स्थूलहिंसा । स्थूलग्रहणमुपलक्षणम् । तेन निरपराधसङ्कल्पपूर्वक हिंसानामपि ग्रहणं आदिग्रहणात् स्थूलानृतस्तेयाब्रह्मचर्यापरिग्रहाणां संग्रहः । एभ्यः स्थूल हिंसादिभ्यो या विरतिनित्तिस्तामहिंसादीनि अहिंसासूनुंतास्तेय ब्रह्मचर्यापरिग्रहान् पञ्चाणुव्रतानीति जिना. स्तीर्थकरा जगदुः प्रतिपादितवन्तः । किमविशेषेण विरतिनेत्याह। विविधत्रिविधादिना भङ्गजालेन विविधः कतकारितरूपस्त्रिविधो मनोवाकायभेदेन यत्र स विविधत्रिविध एको भङ्गः । इह यो हिंसादिभ्यो विरतिं प्रतिपद्यते । स द्विविधां कतकारितभेदां त्रिविधेन मनसा वचसा कायेन चेति । एवं च भावना स्थूल हिंसां न करोत्यात्मना न कारयत्यन्येन मनसा वचसा कायेन चेति । अस्य चानुमतिरप्रतिषिद्धा अपत्यादिपरिग्रहसद्भावात् तैहिंसादिकरणे च तस्यानुमतिप्राप्तः । अन्यथा परिग्रहापरिग्रहयोरविशेषेण प्रव्रजिताप्रव्रजितयोरभेदापत्तेः । ननु भगवत्यादावागमे त्रिविधं त्रिविधनत्यपि प्रत्याख्यानमुक्त
Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202